________________
श्रीहरिश्चन्द्रकथानकम् ।
विवेशोच्चैरुद्धतस्तत्र तापसः ॥ ३९९ ।। ममज तन्मुखं देव्या मध्ये कुण्डाग्नि सत्वरम् । भीता विद्याधरी साउथ क्वाऽप्यगात् सपरिच्छदा॥ ४०० ।। ततः क्रोधात् परिभ्राम्य तापसस्तत्र जग्मिवान् । यत्राऽऽस्ते कृत्तसर्वाङ्गः: शाखाबद्धो हरिः श्वसन् ॥ ४०१॥क्षणेन तापसः किञ्चिदुपलक्ष्याऽऽह बिस्मयात् अरे ! भवान् हरिश्चन्द्रः सोऽप्याख्यदोमिति स्फुटम् ॥ ४०२॥ तमाह तापसः क्रुद्धः; स्वर्ण कुलपतेरदाः ? ! नृपः प्राह दिनैः कैश्चित् प्रभो! पूर्णीभविष्यति ॥ ४०३ ।। उपलक्षयसि त्वं मे प्रोक्तस्तेन नृपोऽवदत् । कौटिल्यस्त्वं महीदाने साक्षी कुलपतेरसि ॥ ४०४ ॥ अरे ! कुलपते: स्वर्णमनापूर्ये ति किं त्वया । आरब्धमित्युचानेऽस्मिन् राइ हियाऽधोमुखोऽभवत् ॥ ४०५ ॥ ततो मा भून्मुनेः स्वर्णहानिरस्मिन् मृते त्विति ! औषण्या व्रणरोहिण्या स्वेनालिम्पत् स तद्वपुः॥ ४०६ ॥ अभूच्च तत्क्षणादेवाऽरूढव्रणवपुर्नृपः । ययौ च तापस: स्थाने स्वे दध्यौ हरिरप्यथ ॥ ४०७ ॥ नाऽपूर्ण मेऽभवत् किञ्चित् सर्वस्वं ददतो मुनेः । विद्याधर्या न यत् सिद्धिः सञ्जाता तद् दुनोति माम् ॥ ४०८ ॥ अरे ! क्व त्वं गतोऽसीति प्राहूतः श्वपचेन सः ? । उपसृत्याह कर्तव्यं मम स्वामिन् ! समादिश॥ ४०९॥ स प्राहैष मृतः कोऽपि समायाति ततो भवान् वस्त्रं गृह्णातु गत्वेति प्रेरितोऽगाद् नृपस्ततः॥४१०॥ अश्रृणोच्छब्दमेकस्याः करुणात्तै सुतव्ययात् । हा! पुत्र! क्व गतोऽसीति मूर्च्छन्त्याश्च मुहुः स्त्रियाः॥ ४११॥ अहो दैवेन निर्मुक्तकरुणेन किलाऽङ्गजम्
॥३२॥