SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम्। ॥३०॥ स्थानादधुनष्यति खेचरी । तेनेत्युक्ते हरिश्चन्द्रः सदैन्यमिव तं जगौ॥ ३७४ ॥ मा मा मे प्रार्थनां व्यर्थी कुरुष्व पुरुषोत्तम!। स्वेनाऽप्यहं महाकष्टान्मर्तुकामोऽस्मि तत् यदि ॥ ३७५ ।। त्वादृशस्योपकृत्याऽथ प्रिये स्यां सफलस्तदा। उपकारः परो धर्म इत्याख्यान्ति बहुश्रुताः ॥ ३७६ ॥ न जातु जनिष्येते द्वाविमौ पुरुषो भुवि । अर्थितो यः करोत्येव यश्च नाऽर्थयते परम् ।। ३७७ ।। इत्येवं बहुशोऽभ्यर्थ्य स्वयमुन्मोच्य बन्धनात् । याहीति प्रेषितस्तेन स जगाम प्रियायुतः ।। ३७८ ॥ नूपुरवाण-कल्पद्रुपुष्पम्रक्सौरभादिभिः । ज्ञात्वा विद्याधरी आरादायान्ती नृपतिः क्षणात्॥३७९॥ बद्ध्वा न्यग्रोधशाखायां स आत्मानमधोमुखम् । गतमृत्युभयं तस्थौ रोमाचकवचालितः ॥ ३८० ॥ ततो विद्याधरी व्योम्नोऽवतताराऽऽर्द्रचीवरा । अग्निकुण्डनये वह्निमुज्ज्वलं समचिस्करत् ॥ ३८१ ॥ सजीकृत्य च पूजादि विद्याधर्याह पार्श्वगान् । चित्राङ्गद ! समीक्षस्व किं लक्षणधरो नरः॥३८२ ॥ चित्राङ्गदोऽप्युपागत्य हरिश्चन्द्राङ्गलक्षणम्। वीक्ष्योचे देवि ! मोदस्व येनाऽयं चक्रिलक्षणः ॥ ३८३ ॥ हुत्वा कुण्डनये मांसमस्य प्रान्ताहुतीकृते । शीर्षे विश्ववशीकारविद्याऽऽविर्भविता स्वयम् ॥ ३८४ ॥ इत्यूचाना मुदोत्थायाऽऽनर्च सर्वाङ्गमयमुम्। जूचे च स्मर किश्चित् त्वं देवं यत्राऽसि भक्तिमान् ॥ ३८५॥ भवेश्च सात्त्विको येन, विद्या सिध्यति मेऽधुना। यत् त्वन्मांसैर्हतैः सा स्यात् प्रीता च वरदा च मे ॥ ३८६ ॥ हरिश्चन्द्रस्ततोऽवादी ध्वस्तसंसारवेशसम्। . ॥३०॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy