________________
श्रीजैन कथासंग्रहः
॥२९॥
वक्तुमुबद्धेन न शक्यते । परं त्वदाकृतिः पुण्या प्रयुङ्क्ते प्रष्टुमत्र माम् ।। ३६१ ।। तदाख्याहि न शक्तोऽस्मि द्रष्टुं ते दुस्सहां दशाम् । इति तत् प्रणयं दृष्ट्वा प्रोवाचोद्बद्धपूरुषः ।। ३६२ ॥ नाहमेतां दशां दीनां कस्याऽपि हि निवेदये । तच्छ्रोता वेत्ति किं मत्तो यत् परित्राणमीहते ? ।। ३६३ ॥ परन्त्वन्यभवस्नेहानुबन्धादथवोत्तमात् । उपकारपरत्वात् ते पृच्छते कथयामि भोः ! ।। ३६४ ।। महासेनोऽस्मि काशीचन्द्रशेखरनन्दनः । विद्याधर्याऽत्र पल्यङ्कादानीतः प्रियया युतः ।। ३६५ ।। किमर्थमिति तेनोक्ते नरः प्राहाऽत्र सम्प्रति। मन्मांसेन महाहोमं सा करिष्यति खेचरी ।। ३६६ ।। क्व गता साऽधुना विद्याधरीति हरिणोदिते । स्नातुं गङ्गां नदीं व्योम्ना जगामेत्यवदद् नरः ।। ३६७ ।। ततो दध्यौ नृपो हर्षाद् गत्वरैश्चेन्ममाङ्गकैः । विद्याधर्या भवेत् सिद्धिर्जीवितं चाऽस्य चारु तत् ।। ३६८ ।। तमुवाच हरिश्चन्द्रः प्रार्थये त्वां किमप्यहो !। स प्राहैवंविधावस्थं किं त्वं प्राथर्यसेऽत्र माम् ॥ ३६९ ॥ राज्ञोचे यदलं दातुं प्रार्थ्यसे त्वं तदेव हि । स प्राह तर्हि याचस्व यदभीष्टं नरोत्तम ! ॥ ३७० ॥ हरिः प्राह प्रयाहि त्वं स्वं राज्यं स्वीकुरु क्षणात् । यत् कार्यं तत् करिष्यामि विद्याधर्याः स्ववर्ष्मणा ।। ३७१ ।। पुरुषः प्राह किं ब्रूवे नात्मनीनमिदं खलु । अधमः कः स्वयं स्वार्थे परप्राणान् व्ययिष्यते ? ।। ३७२ ॥ किञ्च स्वं मे यथाभीष्टं यथा मे मृत्युभीरुता । यथैषा दयिता मेऽस्ति तवाऽप्येवं तथाऽस्ति भोः ! ।। ३७३ ।। तद् याहि त्वमतः
श्रीहरिश्चन्द्र
कथानकम् ।
॥२९॥