________________
श्रीजैन कथासंग्रहः
श्रीहरिश्चन्द्रकथानकम्।
॥२८॥
दैवमेव ततो मन्ये बलवन्नापरः पुनः । यत् तेन विहिता बापत् तेनैव हि निवर्त्यते ॥ ३४८ ॥ तमस्यसूचीभेद्येऽपि प्रविशन्निर्भयो हरिः । ददर्श भीषणाकारं श्मशानं निशि सर्वतः ।। ३४९ ॥ क्वचित् फेरण्डफेत्कारं क्वचिद् राक्षसडम्बरम् । क्वचिद् बिभीषिकोद्योतं क्वचित् कौशिकवासितम् ॥ ३५०॥ क्वचित् प्रेतपरित्रस्तशवसंस्कारकृज्जनम् । क्वचिच्च डाकिनीमुच्यमानोत्किलकिलारवम् ।। ३५१॥ क्वचित् कापालिकैर्गृह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपुरितनासिकम् ॥ ३५२ ॥ उपर्युपरि पर्यस्तमुण्डतुण्डस्खलद्गमम् । इतस्ततः श्मशानं स पश्यत् शुश्राव दुर्ध्वनिम् ॥ ३५३॥ अहो! आर्तध्वनि: सैषा मृतपत्याः स्त्रियाः खलु। रुदी वारयाम्येनामित्यगात् तत्पुरो नृप!॥३५४ ॥ उवाच च शुभे! किं ते कारणं परिदेवने ?। साऽऽह पश्याऽग्रतो गत्वा न्यग्रोधे कारणं मम ॥ ३५५ ॥ हरिर्गत्वा ततोऽपश्यत् पुमांसं पूर्णलक्षणम् । उर्ध्वपादमधोवक्त्रं वटशाखानियन्त्रितम् ॥ ३५६ ॥ सोढाऽहं पुरुषः कान्ते! त्वं पुनर्भाविनी कथम् ?। तत्प्रलापमिति श्रुत्वा दध्यौ राजाऽस्य सा प्रिया॥ ३५७ ।। अस्योपकारं कुर्वे यद् दत्ता भूर्मुनये मया । मुनिकन्याधनोपाये विक्रीतौ दयितासुतौ ॥ ३५८ ॥ जीवितस्याऽस्य निर्विण्ण: स्वयमेव पुराऽस्म्यहम् । कृत्वा परार्थ चेद् यामि तत् किं नाप्तं फलं मया?॥३५९॥ इति ध्यात्वा हरिः प्रोचे तमुबद्धं नरं मृदु । अहो ! कस्त्वं कथं चेयमवस्था ते सुदुःसहा ? ॥ ३६० ॥ जाननस्मीति यद्
॥२८॥