________________
श्रीजैन
श्रीहरिश्चन्द्रकथानकम्।
कथासंग्रहः
JOopu09020902000/
॥२७॥
राज्ञोचे बहिरे! स्वैरं कीरः प्रोवाच यद्यसौ । सुतारा राक्षसी स्यात् तद् विशाम्यग्निं पुरस्तव ॥ ३३५ ॥ सदैन्यं प्राह सर्वोऽपि समालोकः शुकस्य गीः । अस्तु प्रमाणमामेति राज्ञाऽप्यूचेऽनुरोधतः ॥ ३३६ ॥ सोत्साहं प्राह कीरोऽपि मन्त्रिन् ! कारय तच्चिताम्। तथा तेन कृते कीरः स्नात्वाऽगच्छच्चितां प्रति।।३३७॥ ततो दिग्नायकानाह योषा राक्षसान्वया। भवेद् नृपसुता तन्मां प्रदहत्वाशु हव्यवाट् ॥ ३३८॥ इत्युक्त्वा पश्यतामेव तेषां गतभयः शुकः । झम्पामदाच्च विण्यातोऽनिश्चास्थादक्षतः शुकः ।। ३३९ ।। आश्चर्यमिदमाश्चर्यमित्यूचाना जनाः स्फुटम् । सतीयं राक्षसी न स्यादित्यदुः शुद्धितालिकाम् ॥ ३४०॥ मन्त्र्यूचे नाथ ! मन्येऽहं मान्त्रिकस्य विजृम्भितम् । तत् केनाऽप्यपदेशेन मान्त्रिकोऽयं विसृज्यताम् ॥३४१॥ तथेमारासभादाशु समुत्तारय सम्प्रति । इत्युक्तो मन्त्रिणा भूपः सविस्मयमदोऽवदत् ॥ ३४२ ॥ किं कुर्मः किमु जानीमः कस्येदं कैतवं महत् । सन्दिग्धेऽर्थे किलैतस्मिन् विचारं कुर्महे च किम् ? ॥३४३॥ इति विकल्प-कोपाभ्यां संश्लिष्टो नृपतिः स्वयम् । व्यसृजन मान्त्रिकं, कीरं पञ्जरेऽथ न्यधापयत् ॥३४॥ उदतारयदेनां च रासभाद् वनितां ततः। इति सर्व विसृज्याऽथ नृपः पल्यङ्कमासदत् ॥ ३४५॥ हरिश्चन्द्रोऽपि सूर्येऽस्ते चाण्डालस्य नियोगतः । ब्रजन् श्मशानं दध्यौ भोः ! कीदृग दुर्दैवनाटकम् ? ॥३४६ ॥ देव्याः कर्मकरीत्वेन स्थिताया विप्रसद्मनि । राक्षसीवचनं कीरो दैवदत्तंन्यवर्तयत् ॥ ३४७॥
॥२७॥