SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीजन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम्। ॥२६॥ पत्नीयमित्यर्थोऽन्यथा स्यात् प्रलयेऽपिन ॥ ३२२ ॥राज्ञा पृष्टो हरिबूते हरिश्चन्द्रो नृपोऽस्मिन। किन्त्वहं श्वपचस्याऽस्य द्रव्यक्रीतोऽस्मि कर्मकृत् ॥ ३२३ ॥ राज्ञा पृष्टाऽजना प्राह; न सुताराऽस्मि राज्यहम् । किन्तु द्विजन्मनो बजदयाख्यस्य दासिका ॥ ३२४ ॥ अरे ! विप्लावयस्यस्मानित्युक्ते भूभुजा शुकः। प्राह किं स्वं हरिश्चन्द्रः प्रकाशयति ते पुरः ? ॥ ३२५ ॥ यतः-सतो वाऽप्यसतो वाऽपि स्वान् स्वयं कीर्तयन् गुणान् । ब्रह्मापि हास्यतां याति किं पुनः प्राकृतो जनः ? ॥ ३२६ ॥ हरि प्रत्याह राजा भो मा भैषी: सत्यमुच्यताम् । ननु यद्यप्यहं वैरी त्राताऽऽपदि तथाऽपि ते ॥ ३२७ ॥ हरिश्चन्द्रोऽब्रवीद् देव! वचसा पक्षिणोऽस्य किम्। पुनरायस्यते स्वं यद् दासोऽस्याऽस्मीत्यवोचत ? ॥ ३२८ ॥ रूप-लावण्यधैर्यादिगुणविस्मितचेतसा। राज्ञा पृष्टा पुनर्नारी तदेवोत्तरमाख्यत ॥ ३२९ ॥ मन्त्री प्राहाऽऽकृतावस्यां राक्षसीकर्म किं भवेत् ? । ततो विचार्य कर्तव्यं स्वामिना यद्यथोचितम् ॥ ३३०॥ पृष्टश्च श्वपचो राज्ञा प्राहाऽयं मम कर्मकृत् । इति निश्चित्य राजामुंरासभानयनेऽब्रवीत् ॥ ३३१ ॥ तेनाऽप्युक्तो हरिश्चन्द्रस्तत्र रासभमानयत् । शक्तोऽपीष्टोऽपि किं कुर्यानरः परवशः खलु ? ॥ ३३२ ॥ विचार्य कार्यमाचर्यमिति मन्त्रि-शुकादिभिः । वार्यमाणोऽपि तां राजा खरमारोपयद् द्रुतम् ॥ ३३३ ॥ अहो ! अक्षत्रमक्षत्रमित्याक्रन्दन् शुकोऽब्रवीत् । राजन् ! विज्ञापनांमेकां शृणु नीत्यनुयायिनीम् ॥ ३३४ ॥ ॥२६॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy