SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम्। boardobar80x880882788 ॥२५॥ विनिग्रहे ? ॥ ३०९ ॥ ततश्चागात् स चण्डालो हरिश्चन्द्रसमन्वितः । हरिश्चन्द्रं शुको दृष्ट्वाऽभूदुत्फुल्लाक्षमानसः ॥ ३१०॥ प्राह च स्वस्ति ते नाथ ! भरतान्वयभूपते ! हरिश्चन्द्र ! नमद्भपमौलिरत्नातितक्रम! ॥ ३११ ॥ सरोषं प्राह राजा किमसम्बद्धं प्रभाषसे ? क साकेतपतिात्र कीर ! त्वं विह्वलोऽसि किम् ? ॥ ३१२ ॥ अथाह श्वपचं मन्त्री कुर्वऽनाच्छादनामिमाम् । तेनाऽपि हरिरादिष्टस्तां कृत्वाऽनवगुण्ठनाम् ॥३१३॥ प्रत्यभ्यज्ञासीत् किं नाम सुतारा देव्यसौ हहा ! ? किमेतेन हि दैवेन हन्तव्या वयमेव हा ? ॥ ३१४ ॥ नास्मिन् कर्मणि देव्येषा करणं स्यात् कथञ्चन । किन्तु मे कोऽपि दुष्कर्मप्रेरितः कुरुते बदः ॥ ३१५ ॥ प्रविश्याऽग्नि ततो देव्या दोषमुत्सारयाम्यहम् । अथवाऽरिसभायां मे नात्मा योग्यः प्रकाशितुम् ॥ ३१६ ॥ मुनिभ्यः पृथिवी दत्ता विक्रीता ससुता प्रिया। यत् करिष्यति दैवं तद् हरिश्चन्द्रः सहिष्यते ॥ ३१७ ॥ दृष्ट्वा तां बाह्यनेपथ्यैरदूषितवपुलताम् । मन्त्रिणे पृथिवीनाथ: स्ववितकै न्यवेदयत् ॥ ३१८ ॥ चन्द्रकान्तं मुखं यस्याः सुवर्ण वपुरेव हि । पद्मरागौ करावेव किमस्या मण्डनान्तरः ? ॥३१९ ॥ उपलक्ष्य शुकोऽथैनां ननाम नतमस्तकः । उशीनरसुते ! देवि ! सुतारे ! स्वस्ति ते सति!॥ ३२०॥राज्ञोचे किं मुहुः कीर! प्रलपस्येवमुच्चकैः । क्व साऽत्रोशीनरसुता ? किं त्वं कीरोऽसि मद्यपः ? ॥ ३२१ ॥ सावष्टम्भं शुकः प्राह हरिश्चन्द्रनृपो झयम् । अस्य rooo ΟΟΟΟΟΟΟΟΧΟδυ. ॥२५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy