SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम्। ॥२४॥ ॥२९६ ॥ यद्यस्ति कौतुकं तत् त्वं सामग्रीमुपढौकय। माष-सर्षप-लवणान्युत्खड्गानष्ट पूरुषान्।।२९७।। क्षणात् तथाकृते राज्ञा मान्त्रिको मण्डलं व्यधात् । तदन्तरुपविश्याथ किञ्चिद् ध्यानमनाटयत् ।। २९८ ।। दिक्पालाह्वानमर्चानां मन्त्रानुच्चैरथोच्चरन् । मात्रिको राक्षसी मन्त्रैराचकर्ष विहायसा ।। २९९ ।। आयान्ती साऽनुगान् प्राह रे ! ग्रासः क्वचिदीक्ष्यताम् । येनाऽस्मि सुचिराद् बाढ़ क्षामकुक्षिर्बुभुक्षया ।। ३०० ॥ मण्डले मन्त्रशक्त्याथ सनिर्घातं पपात सा। सर्वेऽप्यबिभयुस्तस्या बिडाल्या इव मूषिकाः ॥ ३०१॥ सविस्मयं नृपः प्राह मन्त्रोत्कर्षावधिस्त्वयम् । य एनां राक्षी मन्त्रैरानैषीत् पश्यतां हि नः ॥ ३०२ ॥ मान्त्रिकः प्राह कर्तव्यमस्माभिः कृतमेव हि । उचितं यत् कुरु त्वं तत्रिग्रहे त्वमसि प्रभुः ॥ ३०३ ॥ साक्षेपमादिशद् राजा मन्त्रिन् ! श्वपचमाह्वय । कलहंसं तमाह्वातुमादिक्षत् सचिवस्ततः ।। ३०४ ॥ कलहंसोऽपि तत्रैव विमुच्य शुकपञ्जरम् । जगामाऽथ नृपोऽवादीद् मन्त्रिन् ! किं त्वस्ति पञ्जरे ? ॥३०५।। मन्त्रिणोचे महाराज ! शुकराजोऽस्ति सर्ववित् । उपश्लोकय राजानमित्युक्तश्च शुकोऽपठत् ॥ ३०६ ॥ सद्धर्म ! जय काशीन्द्र ! यस्याऽऽकृष्टा गुणैर्भृशम् । नयन्ति मार्गणा लक्ष्मीमेकेऽन्ये त्वानयन्ति ताम् ॥३०७॥राज्ञा किं पठितोऽसीति पृष्टोऽसावाख्यदात्मनः। तर्क-लक्षण-साहित्य-गणितस्मृतिकौशलम् ॥३०८ ॥ मान्त्रिकः प्राह भो राजन् ! राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत् कोऽयं विलम्बोऽस्या ॥२४॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy