SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ जीजैन श्रीहरिश्चन्द्रकथानकम् । कथासंग्रहः ॥२३॥ ॥२८३॥ न वयं दुर्नया नाऽपि वृथधर्मः पुरीजनः । नृणामकालमृत्युश्च तदन्वेषय कारणम् ॥ २८४ ॥ ततश्च कुट्टिनी काचित् पुत्रीमरणविहला । उरस्ताडं समागत्य साक्षेपं नृपमब्रवीत् ॥ २८५ ।। सदैवाऽन्यायकारी त्वं सदा पीडयसि प्रजाः । सदाऽपि पापनिष्ठोऽसि तेनाऽयं म्रियते जनः ।। २८६ ॥ मत्पुत्री नामतोऽनासुन्दरी स्मरमजरी प्रक्रीड्य सुखशय्यायां सुप्ताऽकस्माद् मृताऽस्ति हा!॥ २८७ ॥ अहो ! कर्कशता हस्या अहो ! निर्लजता गिराम् । इति ध्यायन्नृपेणोक्ते मन्त्री किं क्रियतामिति ? ॥२८८ ॥ मन्त्र्याह स्वामिन्नत्रार्थे प्रगल्भन्ते हि मात्रिकाः। राजा प्राहाऽऽगतोऽस्तीहोजयिन्या मान्त्रिको महान् ।। २८९ ।। तत आकार्यतामेष इत्युक्तो मन्त्रिणा नृपः । आजूहवत् तदैवैनं सोऽप्यागत्य समाविशत् ॥ २९० ॥ राजोचे मान्त्रिकं किं न: पुर्या मारिविजृम्भितम् ? । सोऽप्याह नाटयन् ध्यानं राक्षसीललितं ह्यदः ॥ २९१ ॥ वृद्धवेश्याऽऽह साऽऽश्वासं पुत्रिका मम मान्त्रिक। मृताधुनैव स प्राह; जीवयिष्यामि तां खलु ॥ २९२ ॥ सा वस्त्राञ्चलमादाय भ्रमयित्वा शिरस्यधात् । मदाशिषः प्रभावेन चिरं त्वं जीव मान्त्रिक ! ॥२९३ ॥ ततो दासी समागत्य कुट्टिन्यै समचीकथत् । मातस्त्वं वर्धसे दिष्ट्या यतो जीवति ते स्वसा॥२९४ ॥ ततः प्रत्ययतो राजा सादरं प्राह मान्त्रिकम्। आनेतुं प्रभवस्येनां राक्षसीमथ सोऽब्रवीत् ॥२९५ ।। किमेवं कथ्यते देव! मन्त्रेणाऽऽकृष्य वासुकिम्। पाताला वासवं स्वर्गाद, अब्धेल शमिहानये ॥२३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy