________________
जीजैन
श्रीहरिश्चन्द्रकथानकम् ।
कथासंग्रहः
॥२३॥
॥२८३॥ न वयं दुर्नया नाऽपि वृथधर्मः पुरीजनः । नृणामकालमृत्युश्च तदन्वेषय कारणम् ॥ २८४ ॥ ततश्च कुट्टिनी काचित् पुत्रीमरणविहला । उरस्ताडं समागत्य साक्षेपं नृपमब्रवीत् ॥ २८५ ।। सदैवाऽन्यायकारी त्वं सदा पीडयसि प्रजाः । सदाऽपि पापनिष्ठोऽसि तेनाऽयं म्रियते जनः ।। २८६ ॥ मत्पुत्री नामतोऽनासुन्दरी स्मरमजरी प्रक्रीड्य सुखशय्यायां सुप्ताऽकस्माद् मृताऽस्ति हा!॥ २८७ ॥ अहो ! कर्कशता हस्या अहो ! निर्लजता गिराम् । इति ध्यायन्नृपेणोक्ते मन्त्री किं क्रियतामिति ? ॥२८८ ॥ मन्त्र्याह स्वामिन्नत्रार्थे प्रगल्भन्ते हि मात्रिकाः। राजा प्राहाऽऽगतोऽस्तीहोजयिन्या मान्त्रिको महान् ।। २८९ ।। तत आकार्यतामेष इत्युक्तो मन्त्रिणा नृपः । आजूहवत् तदैवैनं सोऽप्यागत्य समाविशत् ॥ २९० ॥ राजोचे मान्त्रिकं किं न: पुर्या मारिविजृम्भितम् ? । सोऽप्याह नाटयन् ध्यानं राक्षसीललितं ह्यदः ॥ २९१ ॥ वृद्धवेश्याऽऽह साऽऽश्वासं पुत्रिका मम मान्त्रिक। मृताधुनैव स प्राह; जीवयिष्यामि तां खलु ॥ २९२ ॥ सा वस्त्राञ्चलमादाय भ्रमयित्वा शिरस्यधात् । मदाशिषः प्रभावेन चिरं त्वं जीव मान्त्रिक ! ॥२९३ ॥ ततो दासी समागत्य कुट्टिन्यै समचीकथत् । मातस्त्वं वर्धसे दिष्ट्या यतो जीवति ते स्वसा॥२९४ ॥ ततः प्रत्ययतो राजा सादरं प्राह मान्त्रिकम्। आनेतुं प्रभवस्येनां राक्षसीमथ सोऽब्रवीत् ॥२९५ ।। किमेवं कथ्यते देव! मन्त्रेणाऽऽकृष्य वासुकिम्। पाताला वासवं स्वर्गाद, अब्धेल शमिहानये
॥२३॥