SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीहरिशानकथानकम् । कयासमहः ॥२२॥ गासनश्मशानेशः कालदण्डाभियोऽस्म्यहम् ॥ २०१॥ इति श्रुत्वा नृपः स्माहतं त्वदाज्ञाकृदस्म्यहम्। यदा मां प्रति स्यात् तद् दातव्यं मुनये खलु ॥ २७२ ॥ अपवार्य मुनिः प्रोचे नमस्ते सत्त्वशालिने । नमस्ते सत्यसन्धाय नमस्ते धैर्यसमने । २७३ ।। कालदण्डोऽपि तद्वाचं प्रपन्न: साक्षिणं मुनिम्। कृत्वा सह नृपेणासौ श्मशानमगमद निजम् ।। २७४ ।। इतश्च पुर्यामेतस्यामकस्मादपि देहिनाम् । जीवितव्यं हरन् मृत्युरुपतस्थे खलो यथा ॥ २७५ ।। ततश्च परितः प्रोद्यदाक्रन्दम्वनिभिर्जितः । निलीयाऽस्थादिव क्वापि नगरे मालम्वनिः ॥ २७६ ॥ मृत्योर्मीता जना रक्षां विदधत्यात्मनो यथा। तथा प्रेरितवन्मृत्युस्तान् गृह्णाति सहस्रशः॥ २७७॥श्रुत्वाऽथ दुःसहलोकाऽऽक्रन्दं मरणजं पुरे । आइत् सत्यवसुंभूपो मन्त्रिणं चन्द्रशेखरः ॥ २७८ ॥ राजादेशात् समायान्तं मन्त्रिणं योऽपि पूरुषः । अन्तरा मिलितोऽनंसीत् कीरपञ्जरपाणिकः ॥ २७९॥ कलहंस ! त्वया कीरो लब्धोऽयं क्वेति मन्त्रिणा । पृष्टे स प्राह चम्पाया बने देवनमाप्नवम् ? ॥ २८ ॥ चन्द्रशेखरभूपाय सदाप्रियविपश्चिते। सर्वशासन दीष्णत्वादिहाऽऽनैषं शुकोत्तमम् ॥ २८१ ॥ इति तद्वचनं शृण्वंस्तेनैव सह मन्त्रिराट् । ययावुपनृपं नत्वा यथास्थानमुपाविशत् ॥ २८२ ॥ सखेदं प्राह भूपालो मन्त्रिन् ! पश्य पुरीजनः । सङ्कोचितायुर्दैवेन याति वातेन दीपवत् १ प्रविण ॥२२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy