SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ श्रीहरिश्चन्द्रकथानकम्। कथासंग्रहः ॥२१॥ हि। कियदेव ब्रुवाणस्त्वमदृश्यास्य ! न लज्जसे ॥ २५८ ॥ दथ्यौ राजाऽधमण घिगुत्तमर्णस्य दुर्गिरः। यः सहन्नपि भूयोऽपितं प्रीणयति चाटुभिः ॥२५९॥ बूचे च भगवन्नेवं काउपि मे चित्तदुष्टता। विक्रीय दयिता-पुत्रौ यत् प्राप्तं तत् समर्पये॥२६०॥ चेजारमुखो मूर्ख ! राजानं प्रार्थय द्रुतम् । चन्द्रशेखरमत्रत्यं किं विक्रीतौ प्रिया-सुतौ ? ॥ २६१ ॥राजाऽऽख्यत् किमिदं ब्रूषेऽनुचितं सत्त्वशालिनाम् । शतशो हि पराभूतानाहं प्रत्यर्विनोऽर्थये ॥ २६२॥ प्रतिज्ञाघ्रष्ट! वाचाट! पुरो नः स्वं विकत्थसे। इत्युक्ते मुनिना प्राह राजा मा स्म मुने! कुपः॥२६३॥ चण्डालस्याऽपि कर्माऽहं कृत्वा दुष्करमप्यथ। दास्ये स्वर्णमिति मापोक्तेऽभूद् रोमाञ्चितो मुनिः ॥ २६४ ॥ ततः कौपीनवासोभृल्लघुपिकचोच्चयः । दृढयष्टिकरो वृद्धो निषादः कोऽपि चाऽगमत् ॥ २६५॥राजानं वीक्ष्य स प्रोचेरे! त्वं कर्मकरोऽसि किम् ? करिष्यसि च मे कर्म तत् श्रुत्वाऽचिन्तयद् नृपः ॥ २६६ ॥ रविरस्तङ्गतो लोकः क्रायको नास्ति नो मुनिः । क्षमते तनिषादस्यापि कुर्वे कर्म सम्प्रति ॥ २६७ ॥ करिष्ये कर्म तेऽवश्यं राज्ञेत्युक्तेऽथ सोऽवदत् । किं किं कर्ताऽसि मे कर्म राजाऽऽदिशसीह यत् ॥ २६८॥रक्षितव्यं श्मशानंच लातव्यं मृतकाम्बरम्। अर्धदग्धानि काष्ठानि ग्राह्याणि च चितिचयात् ॥ २६९॥ यत् तत्रोत्पद्यते तस्यार्य हि गृह्णाति भूपतिः। अन्यस्यास्य भागी द्वौ ममैकस्ते तु दास्यते ॥ २७० ॥ राजाऽऽदिशति यत् किञ्चित् तच्च कार्य त्वया सदा । ॥२१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy