________________
श्रीजैन कासग्रहः
श्रीहरिचन्द्रकथानकम्।
॥२०॥
अनिषिद्धमनुज्ञातमिति विप्रे नृपाञ्चले । स्वर्ण बनाति राजाख्यद् मोक्षोऽस्या द्विगुणेन भोः ॥ २४५ ॥ तत् प्रपद्य द्विजः प्राह सुतारामग्रतो भव । चलितायां सुतारायां रोहिताश्वोऽनलेऽलगत् ।। २४६ ॥ रुदतीदं सुताराऽऽह तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकं तुभ्यं वत्स! यान्त्यस्मि सम्प्रति ॥ २४७ ॥ अमुञ्चत्यञ्चले तस्मिन् मुहुर्मात्राऽपि बोधिते। भृतिके ! किं विलम्बोऽयमिति कुद्धो द्विजोऽवदत् ॥२४८।। सुतारां समयं यान्ती यावद् मुञ्चति नार्मकः । तावत् करतलेनैतमाहत्या पातयद् द्विजः ॥ २४९ ॥ सबाष्पं पुनरुत्थाय मातुर्वस्वाञ्चलेऽलगत् । पुनर्द्विजेन भूमौ स पादेनाऽऽहत्य पातितः ॥ २५० ॥ राजा सासं ततो दथ्यौ धिगापदमिमां मम । इन्द्रस्याऽप्यलाल्योऽयं पदा विप्रेण हन्यते ॥ २५१ ।। ततः प्रोचे नृपो विप्र!न तिष्ठेद मातरं विना। शिशुः किमपि ते कर्म कर्ता क्रीणीह्यमुंततः ।। २५२ ।। नैतं मुधाऽपि गुलामीत्यूचानं द्विजमब्रवीत् । सुताराऽऽर्य ! गृहाणैनं विधाय मय्यनुग्रहम् ॥ २५३ ॥ विप्रोऽपि कृपया स्वर्णसहसं तस्य वेतने । कृत्वा दत्त्वा च राज्ञे, तावादाय स्वगृहं ययौ ॥२५४॥ राजा दध्यौ न लप्स्येऽहं पुरे वासं ततो मुनिः । यद्येति स्वर्णमेतस्मै दत्त्वा स्यामकुतोभयः॥ २५५॥ ततः कुलपतिः कुर्वन्नाज्ञामिव समाययौ । कोपात् पराङ्मुखीभूय प्रोचे द्राग् देहि हेम मे ॥ २५६ ॥ गृहाण कियदप्येतदित्युक्ते भूभुजा मुनिः। उवाच कुपितस्त्वैतद् ग्रहीष्येऽल्पं न काञ्चनम् ॥ २५७ ॥ मासोपरि गताः पञ्च दिना यदि तदाऽपि
॥२०॥