SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रह श्रीहरिश्चन्द्रकथानकम् । ॥१९॥ सती या दिया भर्तुः सम्मुखे दिवसेऽनुगा। तनुच्छायेव धैर्येण प्रतीपेऽस्मिन् पुरो भवेत् ।। २३२॥ इतश्च ब्राह्मणः कोऽपि वीक्षमाण इतस्ततः। भृतिकां काचिदायासीदुपभूपं स उन्मुखः ॥२३॥ दृष्खा च भूपमापादमस्तकं चक्रिलक्षणम् । बूचे कस्त्वं कवं देहं श्रीगेहं मृतकीयसि ? ॥ २३४ ॥ शचाऽऽत्समौनं भूपालमालप्याडगच्छदग्रतः। दृष्ट्वा सुतारां साम्रोऽभूदुच्चेर्दैवं निनिन्द च ॥ २३५॥ रतेरपि शिरोरत्नमेतां निर्माय सुन्दरीम् । कथं नयसि रे ! दैव ! हन्त ! दास्यविडम्बनम् ॥ २३६ ॥ यतःस्निग्धमहंसतीरूपं सुवर्ण साधुभाषितम् । पत्ते किमपि लावण्यमसंस्कृतमपीतरत् ।। २३७ ॥ सुतारायाः पुरः पुण्यं रोहिताश्वं सुलक्षणम् । दर्भाशिरसं प्रेक्ष्य धिक् शास्त्रमिति सोऽब्रवीत् ॥ २३८ ॥ शास्त्रेषु लक्षणानीह कथ्यन्ते यानि कानिचित् । सन्ति सर्वाणि तान्येषामवस्था पुनरीदृशी ॥ २३९ ॥ नृपः स्वानुभवं प्राह मा मैवं त्वं द्विज ! ब्रवीः । शास्त्रं नहि मृषाभाषि किन्तु मे कर्मवैभवम् ॥ २४०॥ पूर्वजन्मनि यचक्रे ददतामदतां स्वयम् । श्रेयश्च कुर्वतामन्तरायः स इह भुज्यते ॥ २४१ ॥ तशादीदृशी चेत् तेऽवस्यैषा तच्छुचाऽत्र किम् । सर्व विषहमाणो हि कर्मभिर्मुच्यते जनः ॥ २४२ ॥ किमस्या मूल्यमित्युक्ते ब्राह्मणेन मुहुर्मुहुः । कथञ्चिद् रुद्धबाष्योऽथ राजाऽऽख्यदुचितं हि यत् ॥ २४३ ।। ततः स्वर्णसहस्राणि पश्चाऽस्या मूल्यमस्तु भोः! । वदतीति द्विजे राजा लज्जयाऽयोमुखोऽभवत् ॥ २४॥ ॥१९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy