________________
श्रीजैन कथासंग्रहः
॥१६॥
इत्यूचाना पिधायाऽऽस्यं रुरोदोच्चैर्नृपप्रिया । रोहिताश्वस्ततोऽरोदीद् भूत्वा साश्रुनृपोऽवदत् । १९३ ।। मा रोदीर्भव धीरा त्वं सात्त्विकत्वमुरीकुरु । मा मा शोकपिशाचोऽस्मान् गृह्णातु परितो भ्रमन् ।। १९४ ।। रोहिताश्वस्ततोऽवोचदहं तात ! बुभुक्षितः । राजाऽऽदिक्षदरे ! क्षिप्तं देहि वत्साय मोदकम् ।। १९५ ।। न कोऽपि यावदायाति विलक्षो नृपतिस्ततः । किमेतदिति देव्योक्तः पूर्वाभ्यासोऽब्रवीदिति ? ॥ १९६ ।। रोहिताश्वः पुनः प्राह हे ! मातः ! क्षुधितोऽस्म्यहम् । रुदती तारतारं सा सुतारा सुतमब्रवीत् ॥ १९७ ॥ 'चक्रवर्तित्वप्रतिभूलक्षणोपेतवर्ष्मणः । भरतान्वयजातस्याऽवस्था केयं तवागता ? ।। १९८ ।। अथ दध्यौ नृपः कीदृग् राज्यस्यैतादृशः फलम् । रुदतो यत् तनूजस्य प्रातराशेऽप्यशक्तता ॥ १९९ ।। आस्तां विनोदयाम्येनं कौतुक - प्रेक्षणादिभिः । पश्येत पुत्र ! गङ्गायां मिथः क्रीडन्ति पक्षिणः ॥ २०० ॥ हंसोऽयं सारसोऽयं च कोकद्वन्द्वमिदं पुरः । कलापं पूरयित्वा च नृत्यत्येष शिखी कथम् ? ।। २०१ ।। तन्नामोच्चारपूर्व तु वीक्षमाणः सविस्मयम् । रोहिताश्वः पुनः प्राह ताताऽहं क्षुधितो भृशम् ॥ २०२ ॥ सवैलक्ष्यं पुनर्भूपे बोधयत्येवमेव तम् । आगादकस्मात् क्वाप्येका वृद्धा पाथेयमस्तका ॥ २०३ ॥ पृच्छन्ती नगरीमार्ग भूपं साऽऽहेदमद्भुतम् । चक्रिणो लक्षणान्यङ्गेऽवस्था च कथमीदृशी ? ॥ २०४ ॥ कथा नः श्रूयमाणाऽपि 'काराणां भयावहा । तन्मा पृच्छ पुरो गच्छ राज्ञेत्युक्ते चचाल सा ॥ २०५ ॥ मोदकं देहि मे तात !
श्रीहरिश्चन्द्र
कथानकम् ।
॥१६॥