SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम् । ॥१५॥ ६ . कृत्येषु विदुरो नृपः । न चाऽहमपि विज्ञोऽस्मि, विज्ञस्त्वं योऽन्तरायकृत् ॥१८०॥ मुनिः क्रुधाऽक्षिपद् भूमौ गृहीत्वाम्भः कमण्डलोः । आह चास्ति तपश्चन्मे तदा त्वं द्राक् शुको भव ॥१८१ ।। ततश्च सचिव: कीरो भूत्वाऽगाद् नभसा क्वचित् । राजा तु समयं नत्वाऽवोचदेष गतोऽस्म्यहम् ॥१८२॥ निवार्य रुदतो भूपः पूर्लोकानन्वयप्रियान् । क्षमयित्वा स्वापराधान् प्रतस्थे सप्रियासुतः ॥१८३ ॥ अनुरागाल्लुठद्बाष्यमनुयान्तं पुरीजनम् । कष्टान्निवर्तयामास राजा स्नेहगिरा मृदुः॥१८४ ॥ प्रचलन सात्त्विकः पुत्र-कलत्राभ्यां समन्वितः । कथं कथमपि प्रान्तमध्वनः प्राप भूपतिः ॥ १८५ ॥ दूरमार्गपरिश्रान्ता सुतारा नृपमब्रवीत् कियदद्यापि गन्तव्यं खिन्नान्यङ्गानि नाथ ! मे?॥१८६ ॥ उवाच नृपतिर्देवि। मा ताम्य: किं न पश्यसि। अप्रंलिहगृहाकीर्णामाराद् वाराणसी पुरीम् ? ॥१८७॥ अतीव यदि खिन्नाऽसि वहन्ती पुत्रमात्मना । अनुगङ्गातरं रूढं तदा चम्पकमाश्रय ॥ १८८ ॥ देव्या तथाकृते राजा स्वेनैव समवाहयत् । यथासुखं तदङ्गानि ततो देवी व्यचिन्तयत् ॥ १८९॥ यदा हि सम्पदः पुंसां तदा सर्वोऽनुगच्छति । इदानीमार्यपुत्रं यन्न कोऽप्यागादनुव्रजन् ॥ १९० ॥ स्तुत्यः स्तौतीहते काम्योऽनुगम्योऽप्यनुगच्छति । नरं यस्यां प्रसन्नायां को हिनेच्छति तां श्रियम् ? ॥१९१॥ स्वप्नदृश्या ततोऽभूद् नः सा सम्पद यां विनाऽधुना पद्भ्यां यानं क्षितौ शय्या कदाहारो मनःक्लमः ॥ १९२ ॥ ॥१५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy