________________
श्रीजैन कथासंग्रहः
श्रीहरिश्चन38 कथानकम्।
॥१४॥
विमृश्याह नृपो देवीं गच्छान्तःपुरमात्मनः । सुताराऽऽह समष्यामि युष्माभिः सार्धमप्यहो! ॥१६॥ सासं प्राह नृपो देवि! सुकुमारः शिशुः सुतः। पन्थानो विषमास्तत् त्वं तिष्ठानव व्रजाम्यहम् ॥१६८॥ सावष्टम्भं सुताराऽऽह यद् भाव्यं तद्भवत्विह। आगमिष्याम्यहं सार्थ त्वया च्छायेव निश्चितम् ॥१६९॥ पतिव्रते! क्व चलिताऽसीत्युक्ते मुनिनाऽऽह सा। प्रवासे सह नावेन येन पत्यनुगाः स्त्रियः ।। १७०॥ ममायत्तां हरिश्चन्द्रो नेष्यते त्विदमद्भुतम् । इत्युक्ते मुनिना प्राह वसुभूतिः क्रुपा ज्वलन् ॥ १७१ ॥ अरे ! तापस! नासि त्वं विज्ञो लोकस्थितेः खलु । विद्धीद्रानी खियो भर्तृदेवता न परात्मिकाः ॥१७२॥ यत् प्राह व्यवहारजस्त्वन्मन्त्री तत्र मे मतम् । इत्युक्ते तापसेनाह राजाऽपि मुनिपुवम् ॥ १७३ ॥ मम स्वैणस्य पाँस्नस्य देशकोशा-व-हस्तिनाम् । किमन्यद् देव्याः पुत्रस्य न्वमेव स्वाम्यतः परम् ।। १७४ । तत् त्वं चेन्मन्यसे देवी तदायातु मया सह । देव्याह विसृज त्वं मां मुने! स प्राह याहि तत् ॥ १७५ ॥ किन्तु मुक्त्वाऽऽभरणानि यातेति मुनिनोदिते। मुमोच नृपतिः सर्व नेपथ्यं मुकुटादिकम् ॥ १७६ ॥ सुताराऽऽह. पुनः किञ्चिदस्त्ववैधव्यलक्षणम् । भूषणं भगवन्नेवं निशम्य मुनिरब्रवीत् ॥ १७७॥ तव भद्रे ! हरिश्चन्द्र एवाऽवैधव्यलक्षणम् । इति वाचि मुनी साम्रा सुताराऽप्यभवत् ततः॥१७८ ॥ मन्त्री प्राह मुनि कोपादरे रे! ब्रह्मराक्षस!। नृपोऽविज्ञोऽददत् ते क्ष्मां, किं वा गृह्णनितो भवान् ॥ १७९ ॥ कृपा प्रोचे मुनि ऽयं
॥१४॥