SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम्। ॥१२॥ राज्ञोऽमूनीत्यपाकरोत् ॥ १४० ॥ कुन्तलो वसुभूतिश्चाहतुः कुलपते ! नृपः । यावद् ददाति ते स्वर्ण तावदावां गृहाण भोः ॥१४१॥ मुनिराह त्वया जूर्णमाजरिण करोमि किम् । अल्पेन कुन्तलेनापि कः स्वर्ण स्वमुपेक्षते ? ॥ १४२ ॥ आदिक्षत् कुन्तलं राजा देवीभूषणमानय । स ययाचे ततो देवीं देव्याहेष्याम्यहं स्वयम्॥१४३॥ तेन दर्शितमार्गाऽसौ रोहिताश्वेन संयुता। आययौ सदसि क्षिप्तं सुतारा सावगुण्ठना ॥ १४४ ॥ प्रणम्यैषा मुनि प्रोचे गृहाणाभरणं मम । मुनिराह पितुर्भर्तुर्वैतान्येषाऽब्रवीदिति ॥१४५ ॥ आर्यपुत्रेण मे योग्यं नेपथ्यमिदमर्पितम् । मुनिराह ततः केयं दक्षता ते पतिव्रते ! ? ॥१४६ ॥ जूचेऽङ्गारमुखः किं न जानासि त्वमियं किल । महाकूटनिवासस्य हरिश्चन्द्रस्य गेहिनी ॥ १४७ ॥ त्वदीयमेवाऽर्पयते वस्तु येत्युदितेऽमुना । आबद्धभृकुटीभङ्गः कुन्तलोऽथ रुषाऽवदत् ॥१४८ ॥ अरे ! तापस! नो वेत्सि देवीमेतां महासतीम् । तदेव त्वं न भवसीत्युक्त्वा सोऽप्यवदद् नृपम् ॥ १४९ ।। विमृशोऽद्यापि मा मुह्यः किं यते: स्यात् परिग्रहः । वाचश्चमाः स्युरेते हि मुनिव्याजेन राक्षसाः?॥१५०॥ ततः कुलपतिः क्रोधादूचे कर्मकराधम !। आसादितपरज्ञानानधिक्षिपसि तापसान् ? ॥ १५१ ॥ यदि मेऽस्ति तप:सत्यं तदा त्वमधुना द्रुतम् । श्मशानवासी गोमायुर्भवेत्युक्त्वा शशाप तम्॥१५२ ।। कुन्तलो जम्बूको भूत्वा शब्दं कुर्वन् ययौ क्वचित् । प्रसीद मा कुपः स्वामिन् ! मुनिमित्यानमद् नृपः ॥ १५३ ॥ ॥१२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy