________________
श्रीन कथासंग्रहः
श्रीहरिचनकथानकम् ।
॥११॥
दृष्टः किं कोऽपि सात्त्विकः?॥१२७॥ सोपहासमुवाचाऽथाङ्गारवक्त्रो नमत्र्यपि । दृष्टोऽभूत् त्वादृशो नापि हरिशनसमो नृपः ॥ १२८ ॥ नृपं प्रति मुनिः प्रोचे मायाविन् ! किं वृथोदितैः ? । हंसि मध्याह्नसन्म्यां नः सत्त्वं सत्यं च ते ह्यदः ? ॥१२९॥ बूचेजारमुखो राजन् ! वाच्छसि त्वं किमात्मनः ? कुलस्य यशसो लोकस्याकस्मिकमिह क्षयम् ? ॥ १३० ॥ प्रणम्योचे नृपो भीतेस्त्वत्तः किं स्यात् क्षयोऽपि नः ? । उपपूर्वाचलं नैव ग्रहाणामस्तसम्भवः ॥१३१॥ निहन्ति पाणिंना भूपं मुनिस्तं नतवान् नृपः । कोपे क्षान्तौ च तावेव तदाऽभूतां निदर्शने ॥ १३२ ॥ सरोषमारमुखो भूपं प्राह नृपाधम !। विप्लावयसि किं नस्त्वं मृषाभाषामहोदधे !॥१३३ ॥ आहाकारमुखं मन्त्री विरोधस्ते मिथः कथम् । क्वेदृक् तपो रुषः क्वैमास्तन्मा ब्रह्म कलस्य ? ॥१३४॥ प्राहामारमुखः कोपादस्थापितमहत्तर!। कस्त्वमपि मम ब्रह्मचिन्तायां सचिवाधम !? ॥ १३५ ॥ अरे राजंस्त्वमेनं किमन्तरालापिनं बटुम् । न निवारयसे किं मेन प्रयच्छसि काञ्चनम् ? ॥१३६ ॥ राज्ञोचे त्वं मुनिः स्वैरं ब्रूहि सर्व सहोऽस्मि यत्। सूर्यवंश्या हि नैवेया भजन्ते यतिषु क्वचित्तु ॥ १३७ ॥ बूचेऽङ्गारो यति हं किन्त्वेष ब्रह्मराक्षसः। ततो यद्यस्ति ते शक्तिस्तदा प्रहर सत्त्वरम् ॥१३८॥ नृपो दम्यौ स्वप्रतिज्ञाघातिना कलहेन किम् ?! तापसेन सहाऽनेन क्रियते कृत्यमेव हि ॥१३९॥ कर्णेच कथिते भूपेनाऽऽनीयाभरणान्यपि। कुन्तलेनाऽर्पितान्येष
॥११॥