SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्रीहरिश्चन्द्रकथानकम्। कथासंग्रहः ॥१०॥ राजाऽऽख्यत् त्वं न चाऽपरः ॥ ११४॥ मुनिरूचे ततः कोऽयं प्रकर्षः कौशलस्य ते । यन्मदीयेन हेम्ना मेग्नृणीभवितुमिच्छसि ? ॥ ११५॥ तदास्तां काञ्चनं यामो दृष्ठं सत्यं तवेयता। इत्युदित्वा मुनौ याति राजा तस्य पुरोऽवदत् ॥ ११६ ॥ विलम्बम्वं क्षणं यावदानयाम्यन्यदन्यतः । सकष्टमिव तस्थौ च स मुनिर्भूभुजाऽर्थितः॥११७॥ ततो राजा मन्त्रिकणे किमप्याचष्ट मन्त्र्यव। केनचित् पुरुषेणाऽऽश्वऽजूहवद् वणिजोऽखिलान् ॥११८॥ मुनिना दिव्यशक्त्या ते हरिशनने द्विषः कृताः । सम्भूय मन्त्रयामासुः स्वामी नोऽतः परं मुनिः ॥ ११९ ॥ हरिचन्द्रस्य दत्तेन किं द्रव्येण वृथाऽधुना ? । यो हि स्वामी पुरस्याऽस्य देयोऽस्माभिः करोऽस्य तत् ॥ १२० ॥ इति मन्त्रयतो मन्त्री तानूचे रहसि स्थितः । राजा वोऽर्थयते स्वर्णमधमणों मुनेः स यत्॥१२१॥ पश्यतस्तान् मियो वक्तुं स्वर्णदाने कृतोत्तरान् । हरिश्चन्द्रस्ततोऽभ्येत्य स्वयमर्थयते स्म तान् ।। १२२ ॥ हे पौराः ! वोऽझलिबद्धो दत्त स्वर्ण कियन्मम । कुतश्चिदपि याचित्वा दास्ये वः काळनं पुनः ॥ १२३ ॥ अल्पद्रव्या वयं दातुं स्वर्णलक्षं न शक्नुमः । इत्यूचिवांसो वणिजो राज्ञादिष्टा ययुगृहम् ॥१२४॥ विलक्षोऽध नृपो दथ्यौ किं करोमि कुतः पुनः । समानयामि तत् स्वर्ण हा ! धिक् कीदृगुपस्थितम् ? ॥१२५॥ ततः कुलपति: कोपकम्पमानाघरोऽवदत् । विलम्बः कोऽयमधाऽपि राजन् ! विसृज मां ततः ?॥१२६ ॥ बसुभूतिर्मुनि प्राह विप्वदृश्वा त्वमस्यथ । हरिचन्द्रसमः क्वापि . ॥१०॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy