________________
श्रीजैन कथासंग्रहः
श्रीहरिश्चन्द्रकथानकम्।
॥९॥
DOOOOOOOOK
सचिन्तो नृपति ययौ ॥ १०१ ॥ नत्वोपविष्टे तस्मिंश्च मन्त्रिणि प्राह भूपतिः । वराहाऽऽवेदकस्याग्रे प्रतिज्ञातमकृष्महि ॥ १०२ ॥ मन्त्र्याह देव ! तत् सर्व वृत्तान्तं ज्ञातवानहम् । राज्ञोचे सस्मितं तर्हि कुन्तलस्तद् न्यवेदयत् ॥ १०३ ॥ मन्त्री प्राह विभो! कस्य प्रभुत्वं न मुदे भुवि । अनौचित्यमपिस्तौति यत्रौचित्यमिवाऽनुगः ॥१०४॥ किन्तु विज्ञपयिष्यामि कर्णयोः कटु किञ्चन । नाथाऽयं वसुधात्यागो नहि मे प्रतिभासते ॥ १०५॥ राज्ञोचे सत्यं किन्त्वेतद् युक्तं नो युक्तमेव वा। प्रारम्भाद् युज्यते पूर्व निर्वाहोऽङ्गीकृते पुनः॥ १०६ ॥ किञ्च यान्तु श्रियो नाशं प्रयातु निधनं कुलम् । प्रवासो वाऽस्तु निर्वाहः प्रतिज्ञाते भवेद् यदि॥१०७॥अलं तदेतया पूर्वकृतमीमांसयाऽधुना। स्वर्णलक्षं हि ढौकस्व स्वेनाऽयाति मुनिर्यतः॥१०८॥ ततः सशिष्यः स मुनिः कुर्वन्नागाद् नृपस्तुतिम् । अहो ! अगोचरे वाचां राज्ञोऽस्य चरितं महत् ॥ १०९ ॥ पूरोभूय नृपस्याऽसौ सकोप इव मायया । अयाचत स्वशिष्येण स्वर्णलक्षं महीपतिम् ॥ ११०॥ नृपाऽऽदेशादथादिक्षत् स मन्त्री कुन्तलं ततः । सोऽपि स्वर्ण समादाय मुमोच नृपतेः पुरः ॥ १११ ॥ राज्ञोक्तः सचिवस्तस्मै तापसाय छुपानयत् । सोऽपि वीक्ष्य किमेतद् भोः ! पप्रच्छेति नृपं मुनिः ॥ ११२ ॥ राज्ञोचे वञ्चनास्वर्ण, कुत एतन्मुनिर्जगी। अथाख्यद् नृपतिः कोशात्, बहिरन्तः स वा क्षितेः?॥११३॥ इत्युक्ते मुनिना राजा प्राह मध्ये क्षितेर्मुनिः। ब्रूते स्वामी क्षितेः कोऽत्र
॥९॥