________________
श्रीजैन कथासंग्रहः
श्रीहरिश्चन्द्रकथानकम्।
॥८॥
शिष्यो यावदियं मृगी। तिष्ठेत् तावद् विपन्ना न पाठस्तत् क्रियतां किमु ?॥४८॥ सखेदं मुनिरूचेऽस्याः कारयाऽनलसंस्कृतिम् । वञ्चनाऽऽह मया सार्धमस्याः स्यादग्निसंस्कृतिः ॥ ८९॥ राजा तां विनयादूचे ममैकं दुर्नयं सह । अहं तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् ॥९०॥ कष्टादिव तयाऽप्योमित्युक्ते प्राह मुनिस्ततः। दीयतांतर्हि हेमाऽस्यै राजा प्राहैत मत्पुरे॥११॥ प्रातः सन्ध्याविधिं कृत्वां पश्यैते वयमागताः । इत्याकर्ण्य मुनिं राजाऽवोचत् तर्हाधुना वयम् ।। ९२॥ इक्ष्वाकुवंशभूपालगुरुं श्रीनाभिसम्भवम् । देवं शक्रावतारस्थमर्चित्वा याम: धामनि ॥ १३ ॥ (युग्मम्) एवं कृत्वा च पाश्चात्यागतसैन्येन संयुतः । हरिश्चन्द्रनृपोऽयोध्यां प्रविवेश दिनात्यये ॥ ९४ ॥ अथ राज्यमहास्तम्भः सर्वनीतिविशारदः । मन्त्री मित्रं च तस्यासीद् वसुभूतिमहीपतेः ॥ ९५ ॥ कुन्तलाद् ज्ञातवृत्तान्तः स दथ्यौ हृदि हा ! कथम् । अपर्यालोचयन्तोऽर्थ राजानः स्वोपघातका:?॥ ९६ ॥ ददता वसुधां तस्मै तापसाय दुरात्मने । देशाद् देशप्रवासो हि स्वीकृतो भूभुजा स्वयम् ॥ ९७ ॥ यदन्येनाऽदृष्टचरो वराहं कोऽप्यवेदयत् । भूभुजे तद् ध्रुवं किञ्चिद् दिव्यमेतद् विजृम्भितम् ।। ९८ ॥ अविमृष्टायतिर्भूपः क्षीयते न्यायवानपि । अत एव विमृष्टारः सन्निधेयाः सुमन्त्रिणः॥ ९९॥ किं कुर्मो दुर्धियः कुर्युर्यत् किञ्चन महीभुजः । तत्तत्प्रतिक्रियाव्यग्रैः क्लिश्यते सचिवैः पुनः ॥ १०॥ विमृश्यैवं तदामात्यः सशल्य इव निःश्वसन् । विलासमण्डपेऽह्राय
-
॥४॥