________________
श्रीजैन कथासंग्रहः
श्रीहरिश्चन्द्रकथानकम् ।
॥७॥
सकोपं मुनिरप्यूचेऽद्यापि प्रावयसे गिरम् । मायाविन् ! हरिणीपूणघातपातकपहिलाम् ? ॥ ४ ॥ ततोऽङ्गारमुखोऽवादीत् प्रसादं ! कुरु मा रुषः । तपस्तेजोनिधे! नाऽयमपमानं नृपोऽर्हति ॥५॥ किन्तु दुष्कर्मणोऽमुख्य पवित्रीकारकारणम् । शाखानुपाति यत् किश्चित् तदेवाशु समादिश ॥ ७६ ॥ मुनिरूचेजारमुख! शुद्धिरस्य तदा भवेत् । सर्वस्वं वचसी दत्ते दानं घनिवृत्तये ॥ ७० ॥ सोचासं नृपतिः प्रोचे प्रसीद भगवन् ! मयि । सर्वस्वं मे गृहाण त्वं विलयं यात्वघं मम॥७८॥ किंन प्राप्तं मया प्रातः ! शुम्यामि यद् यतस्ततः । सग्रामाश्वेभकोशा मूर्दत्ता तेऽम्बुधिमेखला ॥ ७९ ॥ प्रणम्य मुनिमकारमुखः प्राह कृताञ्जलिः । राजा यदभिधत्ते तद् भगवन् ! प्रतिपद्यताम् ।। ८१ ॥ अथाऽपसार्य राजानमूचतुः सुडदौ मूदु । अकाण्डे कोऽयमुत्पातो राजन् ! विमृश मा मुहः ? ॥ ८२॥ राजाऽवज्ञाय तद्वाचमूचे सप्रमावं मुनिम् । वदुक्कं भगवनस्तु गृहाण वसुधामिमाम् ॥ ८३॥ क्षमाधारं मुनिः प्राह दत्ताऽस्मभ्यं मही त्वया । नाईस्वतः परं पृथ्व्या भोगमोमिति सोऽब्रवीत् ॥ ८४ ॥ तदा तत्राऽऽगतं वाराणसीतः शिष्यमात्मनः । मुनि कौटिल्यनामानमाजूडवत् स तापसः ॥ ८५ ॥ हरिश्चन्द्रेण मे पृथ्वी दत्ता जलधिमेखला। इत्यर्वे खलु साक्षी त्वमिति तं मुनिरादिशत्॥८६॥ कौटिल्योऽप्यवदद् राजनवार्थे साक्षिणो क्यम् । ओमित्युक्ते पेणाऽगात् स स्वं स्थानं मुदं नृपः॥ ७॥ अथ व्यजिज्ञपत् कोऽपि
॥७॥