________________
श्रीजैन कथासंग्रहः
ord
श्रीहरिश्चन्द्रकथानकम्।
॥५॥
प्रशासति क्षोणी कुतोऽस्माकमुपद्रवः ? ॥४७॥ मही राजन्वती तेजः प्रबलं विमलं यशः । वर्णाश्रम महीरक्षा दक्षा वृत्तिस्तवाऽखिला॥४८॥ अस्मिन्नवसरे क्वापि जातः कोलाहलो महान् । किमेतदिति सम्भ्रान्तौ मुनिभूपौबभूवतुः? ॥ ४९ ॥ अब्रह्मण्यमब्रह्मण्यमिति च व्याकुलं वचः । श्रुत्वा कुलपतिः शिष्यं तं ज्ञातुं प्राहिणोद् द्रुतम् ॥५०॥ पुनरार्तस्वरो जज्ञे स्त्रीणां शोकस्पृशामिति । मातश्चेद् मे मृगी मर्ता करिष्येऽनशनं तदा ॥५१॥ माताऽपि प्राह चेद् वत्सेऽनशनं त्वं करिष्यसि । तदाहमपि कर्तास्मि विना त्वां जीवितेन किम् ॥५२॥ श्रुत्वा कुलपतिश्चैतद् हृदयं स्फोटयद् वचः । किं नः प्राणप्रिया पुत्री वञ्चनाऽनशनीयति ? ॥ ५३ ॥ इयं च निकृति'नमस्मत्सधर्मचारिणी । वत्सामनुसरन्त्येतद् ब्रूते किमसमञ्जसम् ? ॥५४॥ ततोऽङ्गारमुखादाशु स तापस्यावजूहवत् । आजग्मतुरथो तारं ते रुदत्यावुभे अपि॥५५॥ उवाच वञ्चनां मायी मुनिः किं पुत्रि! रोदिषि? । साउह जानाति तातो यदस्ति क्रीडामृगी मम॥५६॥ सोऽप्याह या त्वया बाल्यात् पोषिता स्वकरार्पितैः । नीवारकवलैस्तस्यास्ततः किमभवत् सुते!?॥५७ ॥ इत्युक्ते वञ्चना तारस्वरं रोदिति केवलम् । ततः प्रविश्य सम्भ्रान्तः शिष्यः कुलपति जगौ॥५८॥ भूरराजन्वती सेयमब्रह्मण्यमहो! महत् । मृगयाव्यसनात् पापः कोऽप्यहन् गर्भिणी मृगीम् ॥ ५९॥ सासं कुलपतिः प्रोचे हहा ! किं भाव्यतः परम् ? । यतस्तां निघ्नता तेनाऽऽनीतोऽस्माकं
॥५॥