________________
श्रीजैन कथासंग्रहः
श्रीहरिश्चन्द्रकथानकम्।
-
॥४॥
राजाऽह पुनरयं किं विलोक्याह कपिञ्जलः ॥ ३४ ॥ इदमज्ञातमेवाऽस्तु राजा प्राह तथापि किम् । कुन्तलोऽप्याह किं ज्ञातेनाऽमुना देव ! चल्यताम् ॥ ३५ ॥ उपसृत्य स्वयं राजा लुठद्गर्भा मृगी हताम् । वीक्ष्य प्राह विषण्णः सन्नकृत्याचरणं हहा!॥३६॥न्यायः कोऽयमशस्त्रो यद् दधानो वदने तृणम् । इत्थं निःशरणो दीनो हन्यते सुभटैः पशुः ? ॥३७॥ धिग् धिग् मां हरिणिभ्रूणघातकं गुरुपातकम्। धिगिमां मेऽखिलक्षोणीकरार्तिजनितां श्रियम् ॥ ३८ ॥ विकलाक्षत्वकृत् पञ्चेन्द्रियाणामपि या नृणाम् । कृत्याकृत्यमति या च मदिरेव विलुम्पति ॥ ३९॥ कुलटेव न यैकत्राऽवस्थाना तामपि श्रियम् । इच्छवो मार्गमुज्झन्ति मुनिभिः प्लाघितं जडाः ॥ ४० ॥ धन्यास्ते मुनयो हित्वा महासंसारकश्मलम् । निष्पले संवृतात्मानो मोक्षमार्गे चरन्ति ये ॥ ४१॥ तद् गच्छाम्याश्रमं पुण्यं यत्र सन्ति तपोधनाः । इयतः कल्मषात् शुद्धिः कथं मे भविताऽन्यथा ? ॥ ४२ ॥ इति राज्याद् विरक्तात्मा पादचारेण भूपतिः । व्रजित्वा सह मित्राभ्यां विवेश द्रुतमाश्रमम् ॥४३॥ दृष्टा कुलपति तत्र ननाम मुदितो नृपः । पृष्ठे पाणिं निधायास्य मुनिरप्याशिषं ददौ ॥४४॥ क्षतात् त्राणेन लोकानां स्वस्य क्षत्र इति प्रथाम् । कुर्वाण: सार्थिकां पुण्यैः प्रवर्धस्व सदा नृप ! ॥ ४५ ॥ राजा पप्रच्छ भगवन् ! ज्ञान-ध्यान-तपांसि वः । निर्वहन्त्यहतं कच्चित् कुशलं मृगभूरुहाम् ॥ ४६ ॥ मुनिरूचे महाराज ! भरतान्वयभूषण ! । त्वयि
॥४॥