SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीहरिश्चन्द्रकथानकम्। ॥३॥ धर्मषष्ठभागमिति श्रुतिः॥२९॥ ततो रक्ष्या मयैवैते ध्यात्वेत्युत्थाय सम्भ्रमात् । अब्रवीच्च हहा! कोऽयं मयि सत्यप्युपप्लवः ॥ २२ ॥ श्रीमन्नाभेयदेवस्यारामशत्रु मुनिद्रुहम् । तमद्य शूकर हन्मि प्रतिज्ञा चाऽकरोदिति ॥२३॥ अथो यथागतं क्वापि वराहवेदके गते। प्रतिश्रवमिव प्रोच्वं राजाऽऽरोहत् तुरङ्गमम् ॥२४॥ सैन्यं सन्नह्यदेवाऽसौ विमुच्य स्वयमेव तम् । निग्रहीतुमनाः क्रोडं त्वरीतं निर्ययौ पुरात् ॥ २५॥ मनोवेगेन यात्यचे भूपतिः प्राप तत्क्षणात् । वनं शक्रावताराख्यं मुदेवाऽभिमुखागतम् ॥ २५॥ अपश्यत् स्मेराब्जमुखी कलहंसकमण्डिताम् । मृदुवीचीभुजां तत्र शरयूमुदधिप्रियाम् ॥ २६ ॥ राजा पप्रच्छ पावस्थौ स कपिञ्जलकुन्तलौ। अहो ! क्वाऽसौ वराहस्तावूचतुर्नन्वयं पुरः ? ॥ २७ ॥ वराहस्तद्वचः श्रुत्वा पुर्घराऽऽरवमुच्चकैः । कुर्वाणोऽपि नृपं क्रोधाद् दधावे वनगह्वरात् ॥ २८ ॥ लघुहस्तस्ततो राजा जानुलम्बभुजोऽपि हि । रोमाञ्चकवचं बिभ्रद् निर्भयोऽपि भृशं तनौ ।। २९ ॥ करे चापमलङ्कृत्य पूरयंस्तवपुः शरैः । बराहं पातयामास पूरयामास संश्रवम् ॥ ३०॥ (युग्मम्) ततः कपिञ्जलं प्राह राजा पश्याग्रतः कियत् । लक्षमेतच्चलं भिन्नं सोऽप्युपेत्य तथाऽकरोत् ॥३१॥ स्वेनैत्य पश्य मित्रेति प्रोक्तस्तेन नृपो द्रुतम् । ददर्श रुधिराद्र तं ज्वलद्दवमिवाचलम् ॥ ३२ ॥ उवाच च यथाऽस्यैवमतैरिश्चीयमाकृतिः। तथा मन्ये वराहेण भाव्यं दिव्येन केनचित् ॥ ३३ ॥ कपिञ्जलोऽवदद् देव ! द्वीपी चायं हतः पुरा । ॥३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy