________________
श्रीहरिश्चन्द्रकथानकम्।
सूर्यवंशभवक्ष्मापवृत्तोज्ज्वलयशः श्रिया। जातच्छत्रा महैश्वर्य दधाति नगरीषु या॥८॥ नतिरेवोन्नतिर्येषां दानमेव धनार्जनम् । परार्थ एव तु स्वार्थः क्षमैव हि समर्थता ॥९॥ एवंविधनरोत्तंसैर्वृक्षरुद्यानभूरिव । या सदाऽलङ्कृता हर्ष न केषां कुरुतेतराम् ?॥१०॥ (युग्मम्) एकनक्षत्रमालेन्दुस्त्रीणां हारमुखेन्दुभिः । प्रतिबिम्बच्छलाद् व्योम यया सौधेष्वधःकृतम् ॥ ११॥ बभूव नृपतिस्तस्यां हरिश्चन्द्रो महाभुजः । धर्मेणोद्वाहिता कीर्तिर्येनतें करपीडनम् ॥ १२॥ तथा नीतिगवी तेन पोषिता सुकृतात्मना । विश्वप्रीत्यै यथाऽद्यापि यशो दुग्धं तदुद्भवम् ॥ १३ ॥ अन्यदा रात्रिपर्यन्ते पल्यवस्थः स बन्दिना । पठ्यमानमिमं श्लोकं सत्त्वोत्तेजनमाशृणोत् ॥ १४ ॥ विपद्यपि गता सत्त्वाद् ध्रुवं स्यात् सम्पदां पदम् । गतोऽप्यस्तं रविर्मार्गादच्युतोऽभ्युदयी पुनः॥१५॥ इमं श्रुत्वा पठन्नेव समुत्तस्थौ महीपतिः। पुनः पुनस्तदीयाथै मुदा हृदि विभावयन् ॥ १६ ॥ कृत्वा प्राभातिकं राजा यावदास्थानमाययौ । तावत् कोऽपि नरोऽभ्येत्य सम्भ्रान्त इदमूचिवान् ॥ १७॥ महाराज ! हरिश्चन्द्र ! त्वयि शासति मेदिनीम् । न श्रुतावपि लोकानां भयमित्यक्षरद्वयम् ॥ १८ ॥ किन्त्वेकः शूकरः शक्रावतारवनमध्यगान् । कुतोऽप्यागत्य भीष्माङ्गो भञ्जनास्ते लतादुमान् ॥ १९ ॥ तापसाश्चाभवंस्तत्र सर्वे भयविसंस्थुलाः । ततो दथ्यौ नृपोऽमीषां किमभूद हा! तपस्विनाम् ? ॥ २०॥ यथा लोकः करं दत्ते स्वधनस्याऽवनीपतेः । मुनयोऽपि तथा ।
॥२॥