________________
श्रीजैन कथासंग्रहः
॥अहम् ।। - श्री शंखेश्वर पार्श्वनाथाय नमः। ॥ श्री प्रेम-भुवनभानु-पर-हेमचन्द्र सदुरुभ्यो नमः ।। . श्रीभावदेवसूरिविहितपार्श्वनाथचरित्रोद्धतम्
श्रीहरिश्चन्द्रकथानकम्।
॥१॥
श्रीहरिश्चन्द्रकथानकम्। नाभेयाय नमस्तस्मै यस्य क्रमनखांशवः । मौलौ दधति नम्राणां माङ्गल्यामक्षतश्रियम् ॥१॥ श्रीविद्यावास्तुहस्ताभ्यां वाग्देवी पद्यपुस्तकम् । जीयाद् दधाना दौर्गत्य-दुःखोच्छेदाय देहिनाम् ॥२॥ सत्त्वमेव नृणां तत्त्वं सत्त्वं सिद्ध्यै भवद्वये । विना सत्त्वं सजीवोऽपि निर्जीव इति कथ्यते ॥३॥ विशीर्णोऽपि यथा वृक्षः सति मूले प्ररोहति । प्रक्षीणोऽपि तथा भूयो नरः सत्त्वाद् विवर्धते ॥४॥ यद् दूरं यद् दुराराध्यं दुर्घटं दुर्लभं च यत् । सर्व सिध्यति तत् सत्त्वात् तद्विना तु सदप्यसत् ॥ ५॥ श्रूयते हि पुरा लोके श्रीमदिक्ष्वाकुवंशभूः । उदारचरितः सत्त्वे हरिश्चन्द्रो महान् नृपः ॥ ६ ॥ तथाहि-अस्त्यत्र भरतेऽयोध्या पुरी वप्रांशुकोज्ज्वला । प्रासादमण्डना नान्यैरभिभूता सतीव या ॥ ७ ॥
॥१॥
BEHARE