________________
श्रीजैन कथासंग्रहः
॥४२॥
• सम्यग्दृष्टिर्भवेदिह ।। ५३७ ।। ततस्तान् सकलान् जित्वा जीवोऽनन्तश्रियं पुनः । अर्जित्वा विश्वसंमान्यः • सुखी स्याद् रत्नचूडवत् ।। ५३८ ।। इति श्रुत्वा गुरोः सम्यग् श्रेष्ठी रत्नाकरस्तदा । निर्विण्णः कामभोगेभ्यो दीक्षां भार्यान्वितो ललौ ॥ ५३९ ।। रत्नचूडोऽपि सम्यक्त्वमूलां स द्वादशव्रतीम् । गृहीत्वा सफलं जन्म मन्यमानो गृहं गतः ॥ ५४० ॥ ततः प्रभृति स सप्तक्षेत्रेषु प्रचुरं धनम् । वपन् दुःस्थितदीनेषु दयादानं ददौ मुदा ।। ५४१ ।। उभयकालावश्यकं त्रिकालं देवपूजनम् । पौषधं पर्वघस्रेषु विधत्ते विधिवत् स च ॥५४२ ।। प्रतिवर्षं सत्यात्रां सभक्तिं तथैव च । प्रायश्चित्तविशुद्धिं न कुरुतेऽसौ सदा तदा ।। ५४३ ।। त्रिवर्गाराधनपरे तस्मिन् पुत्रोऽन्यदाऽजनि । ततश्चतुर्थवर्गार्थमयं दीक्षामशिश्रियत् ।। ५४४ ।। आराध्य संयमं सम्यग् दृष्टिवादमधीत्य च । इन्द्रसामानिको जज्ञे स्वर्गे स्वर्गी स सप्तमे ।। ५४५ ।। स तत्रोत्कृष्टभोगांश्च भुक्त्वोत्कृष्टस्थितिं तथा । जन्मोत्कृष्टकुले प्राप्य ततो मोक्षं च यास्यति ।। ५४६ ।। इत्यवेत्य भविका ! मुनिदानसम्भवं फलमुदारमनर्घ्यम् । यत्नमत्र सततं प्रकुरुध्वं येन वो भवति सौख्यमनन्तम् ।। ५४७ ॥ श्रीमत्तपोगच्छशिरोमणीनां श्रीरत्नसिंहाख्यगुरूत्तमानाम् । शिष्येण दानोपरि 1 रत्नचूडकथा कृतेयं भुवि नन्दताच्चिरम् ।। ५४८ ॥
इति श्रीरत्नसिंहसूरीश्वरशिष्यश्रीज्ञानसागरविरचिता दानोपरि श्रीरत्नचूडकथा सम्पूर्णा ॥
रत्नचूडकथा
॥४२॥