________________
रत्नचूडकथा
गगनचलगिराया बयययययययययययययययययया
दायिकाभ्यां घृतान्नयोः । तदा कृता पुनर्जातिमदो द्वाभ्यां कृतोऽन्यदा॥५२५ ॥ दानानुभावतस्तस्य गृहे किञ्चिद् धनादिकम् । तदादि जज्ञे तेनायं पात्रे दानं पुनर्ददौ ॥ ५२६ ॥ आयुः क्षये ततश्च्युत्वा स आसीत् तव नन्दनः । स्त्रियावपि महावेश्ये जाते जातिमदेन भोः!॥५१७ ॥ दानपुण्यप्रभावेण विषमेऽपि विभूतयः । अभूवनस्य धर्मस्य माहात्म्यं विद्यते यतः ॥ ५२८ ॥ धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं धर्मेणैव भवन्ति निर्मलयशो विद्यार्थसंपत्तयः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते सम्यग् धर्म उपासितो हि भवति स्वर्गापवर्गप्रदः ॥ ५२९ ॥ अपरं च यथा रत्नचूडोऽयं तव पुत्रकः । तथा सांसारिको जीवो या तु वेश्योपदेशदा॥५३०॥ सा पुनः कर्मप्रकृतिः परका सर्वकर्मसु। यद् यानपात्रचटनं गर्भवासः स इष्यते ॥५३१॥ यदनीतिपुरप्राप्तिस्तद्धीनकुलसंभवः । सर्वस्वग्राहका ये । च चत्वारो वणिजोऽधमाः॥५३२॥ ते तु क्रोधादयो ज्ञेया धर्मवित्तापहारकाः। पादुकाकृत् तथा यः स रागो द्वेषस्तु यस्तत्कृत् ॥५३३ ॥ ये वादकारकास्तेऽपि चतस्रो विकथा मताः । या रणघण्टा सा बुद्धिः शुभाशुभमयी किल ॥५३४ ॥ या यमघण्टा सा मिथ्यादृष्टिः कूटनिकेतनम् । इत्येवमन्तरङ्गेऽपि विद्यते सकलं समम् ॥ ५३५ ॥ यथाऽनुकूलया रणघण्टया यमघण्टिका । अस्याकूटमयी जाता प्राच्यपुण्यानुभावतः ॥ ५३६ ॥ तथा जीवस्य चेत् सानुकूला बुद्धिः प्रजायते । तदा मिथ्यादृष्टिरपि
यालययनरायचयन
॥४१॥