SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीजैन रत्नचड कथासंग्रहः ॥४०॥ అలలలలల ల एयरयलयरपयलयरचयचाचा లన నాని समाययो॥५११॥ नृपतिप्रमुखाः सर्वे गतास्तं वन्दितुं जनाः । श्रेष्ठी पुत्रयुतो नत्वा समये पृष्टवानिदम् ॥५१२ ॥ भगवन् ! कर्मणा केन पुत्रो मे सटे घने ? । पतितोऽपि परां लक्ष्मी समुपायं समागतः ॥५१३ ।। गुरुरूचे पूर्वभवकृतेन सुकृतेन भोः !। विपदः सम्पदो जाता अस्य भाग्यवतः सतः॥५१४॥ भगवन् ! कः पूर्वभव इति पृष्टे गुरुजंगौ । नन्दिग्रामे स्थविरका पुराऽभूद दुर्गताऽधिकम् ।। ५१५ ॥ तत्पुत्रः स्थावराभिख्यः सोऽन्यदा वापि पर्वणि । गृहे गृहे भव्यमन्नं दृष्ट्वाऽम्बां प्रत्ययाचत ।। ५१६ ॥ माता प्रोवाच हे वत्स ! सदनं द्रविणं विना । कुतो भवत्यतः पुत्र ! संतोषं भज सर्वथा ॥ ५१७ ॥ तथाऽपि बालभावेन यदा नात्यजदाग्रहम् । तदा सा रोदितुं लग्ना स्वभावोऽसौ यतः स्त्रियाम् ॥ ५१८ ॥ तन्निशम्य कृपया द्विपार्श्वगे प्रातिवेश्मके । समागते तत्स्वरूपं ज्ञात्वाऽथ प्रोचतुस्तदा ॥ ५१९ ॥ एकाऽवोचन्मद्गृहेऽनं त्वया ग्राह्यं शुभं शुभे!। द्वितीया प्राह मद्गेहे प्राज्यमाज्यं विशेषतः ।। ५२०॥ तदने पाचिते सोऽपि भोक्तुं यावदुपाविशत् । तावत् कोऽपि मुनिर्मासोपवासी पारणाकृते ॥ ५२१ ॥ तत्राययौ बालकोऽपितं दृष्ट्वा हृद्यचिन्तयत् । क्वेदृशं मे पुनर्भोज्यं मुनिश्च कुत ईदृशः?॥५२२॥ वित्तपात्र-द्विकयोगे चित्तं संमील्य सत्वरम् । पात्रे दानं प्रयच्छामि त्रिकयोगः सुदुर्लभः॥ ५२३ ॥ विमृश्येति निजे चित्ते ददौ दानं तदा मुदा। शुद्धमन्नं मुनिरपि मत्वा जग्राह सत्तपाः ।। ४२४ ॥ दानानुमोदना ताभ्यां लगबग Ceययययययययययययययया ॥४०॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy