________________
श्रीजैन
रत्नचड
कथासंग्रहः
॥४०॥
అలలలలల ల एयरयलयरपयलयरचयचाचा
లన నాని
समाययो॥५११॥ नृपतिप्रमुखाः सर्वे गतास्तं वन्दितुं जनाः । श्रेष्ठी पुत्रयुतो नत्वा समये पृष्टवानिदम् ॥५१२ ॥ भगवन् ! कर्मणा केन पुत्रो मे सटे घने ? । पतितोऽपि परां लक्ष्मी समुपायं समागतः ॥५१३ ।। गुरुरूचे पूर्वभवकृतेन सुकृतेन भोः !। विपदः सम्पदो जाता अस्य भाग्यवतः सतः॥५१४॥ भगवन् ! कः पूर्वभव इति पृष्टे गुरुजंगौ । नन्दिग्रामे स्थविरका पुराऽभूद दुर्गताऽधिकम् ।। ५१५ ॥ तत्पुत्रः स्थावराभिख्यः सोऽन्यदा वापि पर्वणि । गृहे गृहे भव्यमन्नं दृष्ट्वाऽम्बां प्रत्ययाचत ।। ५१६ ॥ माता प्रोवाच हे वत्स ! सदनं द्रविणं विना । कुतो भवत्यतः पुत्र ! संतोषं भज सर्वथा ॥ ५१७ ॥ तथाऽपि बालभावेन यदा नात्यजदाग्रहम् । तदा सा रोदितुं लग्ना स्वभावोऽसौ यतः स्त्रियाम् ॥ ५१८ ॥ तन्निशम्य कृपया द्विपार्श्वगे प्रातिवेश्मके । समागते तत्स्वरूपं ज्ञात्वाऽथ प्रोचतुस्तदा ॥ ५१९ ॥ एकाऽवोचन्मद्गृहेऽनं त्वया ग्राह्यं शुभं शुभे!। द्वितीया प्राह मद्गेहे प्राज्यमाज्यं विशेषतः ।। ५२०॥ तदने पाचिते सोऽपि भोक्तुं यावदुपाविशत् । तावत् कोऽपि मुनिर्मासोपवासी पारणाकृते ॥ ५२१ ॥ तत्राययौ बालकोऽपितं दृष्ट्वा हृद्यचिन्तयत् । क्वेदृशं मे पुनर्भोज्यं मुनिश्च कुत ईदृशः?॥५२२॥ वित्तपात्र-द्विकयोगे चित्तं संमील्य सत्वरम् । पात्रे दानं प्रयच्छामि त्रिकयोगः सुदुर्लभः॥ ५२३ ॥ विमृश्येति निजे चित्ते ददौ दानं तदा मुदा। शुद्धमन्नं मुनिरपि मत्वा जग्राह सत्तपाः ।। ४२४ ॥ दानानुमोदना ताभ्यां
लगबग Ceययययययययययययययया
॥४०॥