________________
न
रत्नचूडकथा
श्रीजैन कथासंग्रहः
॥३९॥
बचलबालबरचाराचायलचरचराचरचय
यययययययययययययययय
अनीति वर्जयावद्यसद्य श्रीनाशकारणम् ॥ ४९८ ।। उक्तं च-अन्यायोपार्जितं वित्तं दश वर्षाणि पञ्च च। 'प्राप्त पोडशके वर्षे समूलं च विनश्यति ॥ ४९९ ॥ नयेन नेता विनयेन शिष्यः शीलेन लिङ्गी प्रशमेन
साधुः । जीवेन देहः सुकृतेन देही वित्तेन गेही रहितो न किञ्चित् ॥ ५००॥ यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ ५०१॥ न च सर्पमुखे रक्तं न च दष्टकलेवरे । न प्रजासु न भूपाले विभवो दुरधिकारिणि ॥ ५०२ ॥ इत्याद्यनेककविभिः कृतैस्तैस्तैः सुभाषितैः । तथा प्रबोधितो राजा यथाऽङ्गीकृतवानयम्॥५०३॥ पुनर्बभाण राजा तं न्यायाङ्गीकरणं च यत् । तन्ममैव हितं ब्रूहि स्वेष्टं किञ्चिदतः स्फुटम् ॥ ५०४ ॥ कुमारः प्राह यद्येवं रणघण्टां तदाऽर्पय । नृपवाक्यात् तदा जज्ञे साऽप्यस्य गृहिणी वरा॥ ५०५॥ स उपायं धनं भूरि तत्रैवं स्तोककैदिनैः । यानं च वस्तुभिर्भूत्वा क्षेमेणागान्निजां पुरीम् ॥ ५०६ ॥ पित्रादिस्वजनवर्गः सर्वो हृष्टोऽभवत् तदा । सौभाग्यमञ्जरी साऽपि मिलनाय तथाऽऽगमत् ॥ ५०७ ॥ सत्कारपूर्वमुक्ता सा तेन भद्रे ! घनं धनम् । मयाउर्जितं तत्प्रमाणं तवैव वचनं किल । ५०८ ॥ साऽवोचत् तव सद्भाग्यं हेतुरत्र परं वर !| अहं भविष्ये भवतो गेहिनी नृपसम्मता॥५०९॥ ढोकनेन च तद्रुद्ध्या तोषितो नृपतिस्तदा। चकार श्रेष्ठिमुख्यं तंतांभार्या चान्वमन्यत ॥५१०॥ अन्यदा बहिरुद्याने बहुसाधुसमन्वितः। धर्मघोषाभिधः सूरिश्चतुर्ज्ञानी
गरलगाया चारायचरररररररररररररर
॥३९॥