SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः ॥३८॥ षडुन्नतश्चतुर्हस्वः । सप्तसु रक्तो राजा पञ्चसु दीर्घश्च सूक्ष्मश्च ॥ ४८५ ॥ वक्षो वक्त्रं ललाटं च विस्तीर्णं शस्यते ध्रुवम् । गम्भीरं त्रितयं शस्यं नाभिः सत्त्वं स्वरस्तथा । । ४८६ ॥ कण्ठः पृष्ठं च लिङ्गं च जङ्घयोर्युगलं तथा । चत्वारि यस्य ह्रस्वाणि पूजामाप्नोति सोऽन्वहम् ।। ४८७ ।। साङ्गुलीपर्वभिः केशैर्नखैर्दन्तैस्त्वचाऽपि च । सूक्ष्मकैः पञ्चभिर्मत्त्र्त्या भवन्ति चिरजीविनः ॥ ४८८ ॥ स्तनयोर्नेत्रयोर्मध्यं दोर्द्वयं नासिका हनू । पञ्च दीर्घाणि यस्य स्युः स धन्यः पुरुषोत्तमः ।। ४८९ ॥ नासा ग्रीवा नखाः कक्षा हृदयं वदनं तथा । षड्भिरभ्युन्नतैर्मर्त्याः सदैवोन्नतिभाजिनः ॥ ४९० ॥ नेत्रान्तरसना तालु-नखरा अधरोऽपि च । पाणिपादतले चापि सप्त रक्तानि सिद्धये ।। ४९९ ।। स्वं स्वं वृत्तान्तं सामूलचूलं तेभ्यः कथाप्य सः । यमघण्टोक्तसदबुद्ध्या तानजैषीन्नृपाग्रतः ।। ४९२ ।। नीरनिधिनीरमानकारकाणां ततः श्रियम् । सर्वां जग्राह कितवो नंष्ट्वाऽगात् कुत्रचित् तदा ।। ४९३ ।। उपानत्कृत् सहर्षोऽहमित्युच्चैरुच्चरन्नपि । अत्यन्तं कृष्णवदनो यथाऽऽगतस्तथा ययौ ।। ४९४ ।। पूर्वमनागतान् वस्तुग्राहिणो नृपपूरुषैः । आकारयित्वा तद्बुद्ध्या तेषां हारिमथानयत् ।। ४९५ ।। नृपवाक्यात् तदा तेषां चतुर्लक्षमितं धनम् । गृहीत्वा सङ्कटान्मोक्षं चकार करुणापरः । ४९६ ।। अन्यायनिरतोऽप्युच्चै राजा प्रोवाच तं प्रति । वरं वृणीष्व तुष्टोऽहं वयोऽधिकधिया तव ।। ४९७ ।। रत्नचूडो जंगी स्वामिन् ! बेत् तुष्टोऽसि तदा पुरे । रत्नचूडकथा ||३८||
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy