________________
श्रीजैन कथासंग्रहः
रत्नचूडकथा
॥३७॥
यययययययन रपयरचयपचररररररररचरचर
भाटकं क्रियते यदि । सूर्यास्तं यावत् कलहो भवतीह नराधिप ! ॥ ४७२ ॥ एका वक्ति त्वया पादः प्रलम्बः सर्वथा कृतः । शकटं सकलं-रुद्धं त्वयैव वक्ति चापरा ॥ ४७३ ॥ इत्यादि दिवसं यावत् कलिर्भवति निश्चितम् । स्वस्थानगतयोः प्रीतिः पुनः संपद्यते तयोः ॥ ४७४ ॥ चेत् साध्यं क्रियते क्षेत्रं तदा पाण्मासिकी कलिः । धान्येषु च गृहीतेषु प्रीतिः संजायते पुनः॥ ४७५॥ मण्डपिकादिपट्टको यदि साध्यः प्रगृह्यते । वर्ष यावत् तदा राटिर्भवतीह जनाधिप !॥ ४७६ ॥ यदीयं मम सपत्नी जायते कलहस्तदा। यावजीवमिति श्रुत्वा राजा हदि चमत्कृतः॥ ४७७॥ श्रेष्ठिनं सवधूकं स वस्त्रालकरणादिभिः । सत्कृत्य स्वगृहं प्रेषीत् राजा तबुद्धिरञ्जितः ॥ ४७८ ॥ तया मुक्तं तृणजलं तस्या एव गले तदा । बद्ध्वा सोडी बहिर्देशाद् राज्ञा निष्कासिता गता ॥ ४७९ ॥ वाचालाऽपि यथा सोढी वध्वाऽल्पवचसा जिता। तथाऽसौ भवतां जेता भविष्यति न संशयः ॥ ४८०॥ इत्युक्ते ते ययुः स्वं स्वं स्थानं मानसमन्विता । रत्नचूडोऽपि तत् सर्व हृद्यधाद् गुरुवाक्यवत् ॥ ४८१॥ तत उत्थाय तत्स्थानात् स साध रणघण्टया। ययौ तन्मन्दिरं तां चानुज्ञाप्यागात् स्वमाश्रयम् ॥ ४८२॥ निश्चिन्तमानसस्तत्र निद्रां कृत्वा प्रगेऽथ तान् । समागतान् सामवाक्यैः सुचिरं समबोधयत् ।। ४८३ ।। तथाऽप्यबुध्यमानान् तान् लात्वा राजसभां ययौ। द्वात्रिंशल्लक्षणोपेतं तं दृष्ट्वा विस्मितो नृपः ।। ४८४ ॥ तथा च लक्षणानि-त्रिषु विपुलो गम्भीरविष्वेव
यययययययययययययययययया
पाययययययययययययययययययययय
७॥