________________
श्रीजैन कथासंग्रहः
यायला
||३५||
विष्ठालिप्तमसावुल्मुकं ध्रियते यदि। अग्रे ततो दह्यते चेत् पश्चाद् गूथेन लिप्यते॥४४४॥ न शक्यतेऽनया सार्थ कलिं कर्तुमलजया। नभाण्डा भीयते भाण्डचरित्राद्भीयते पुनः॥४४५॥ कलहोपशमायास्याः सामवाक्यमथोच्यते। तत् तप्ततैलमध्ये तु नीरक्षेपणसन्निभम् ॥ ४४६ ॥ उक्तं च-सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः । प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ४४७ ॥ अतो मुनेरिव मम मौनमेव हितावहम् । ततः सा मौनमालम्ब्य तस्थौ दुःस्थितमानसा ॥ ४४८ ॥ सोढी शुनीव भषित्वा भषित्वा सुचिरं तदा । स्वयमेव स्थिता वह्नि शमेति निरिन्धनः ॥ ४९ ॥ तदादि तस्मिन् देशेऽपि न वादयति कोऽपि ताम् । अतो लग्नकपिकच्छूरिव प्राप रतिं न सा ॥ ४५० ।। अरोचकीव नैवानस्वादं लेभे कलिं विना। महामयवतीवासौ निद्रां नाऽऽप निशास्वपि॥ ४५१॥ ततः सोक्षाणमारुह्य महाराष्ट्रप्रतिष्ठितम् । प्रतिष्ठानपुरं प्राप तत्स्वरूपानिरूपकम् ॥ ४५२ ॥ राजद्वारे तृणं नीरं मुक्त्वा च नृपसन्निधौ । गत्वा चावग्रहं सोढीनाम्नी कलहकारिणी॥ ४५३।। कलहे कुशलाः सर्वेऽन्यत्रस्था जिग्यिरे मया। वीरक्षेत्रमिदं ज्ञात्वाऽऽगताऽहं कलिहेतवे॥४५४॥ यदि त्वन्नगरे कोऽपि किञ्चिद् वेत्त्यस्ति शक्तिमान् । स मया सह कलहं करोत्वास्थानसंस्थया ।। ४५५ ॥ अन्यथा यूयं सर्वेऽपि तृणाहारपरायणाः । पानीयं पिबथात्यन्तं तच्छुत्वाऽचिन्तयन्नृपः ॥ ४५६ ॥ एतस्या अनुरूपोऽत्र भविष्यति पुरे पुनः । कस्यचित् कथितुं नैव
वलयनगर
बरगलवार
॥३५॥