________________
रत्नचूडकथा
श्रीजैन कथासंग्रहः
॥३४॥
ययनरवाला
तालुतः कृष्ये यत एवं न भाषसे ॥ ४३२ ॥ त्वया पण्डितमानिन्या न के मुग्धजनाः पुरा । आक्रुष्टाः सन्ति वाचाले ! परमत्रास्म्यहं पुनः ॥ ४३३ ॥ न दृष्टा चेदहं तत् किं वार्तयाऽपि हि न श्रुता । यदेवमन्त्य'जनवन्ममाधिक्षेपमिच्छसि ॥ ४३४ ॥ गोधूममूढक इव हस्तं गोक्षुरमूढके । निक्षेपयस्यन्यबुद्ध्या मयाऽथ कलिमिच्छसि ॥ ४३५ ।। बिले बिले न गोधा स्यात् सप्पोऽपि कुत्रचिद् भवेत् । इत्यादि कटुवाक्यैः सा भीता प्राघूर्णिकाऽभवत् ॥ ४३६ ॥ ततस्तस्याः पादयोः सा पतित्वाऽदोऽवदत् स्वसः ! । क्षमस्वैकं मेऽपराधं वदिष्ये नेदृशं पुनः ॥ ४३७ ।। तदा राटीकारिणी सा पादेनाऽऽहत्य तां दृढम् । अदो ललापरे रण्डे! मां भगिनी प्रजल्पसि?॥ ४३८॥ अहं जाताऽस्मि ते पित्रा किं वा ज्ञाताऽसि संप्रति ?। नागरकीभङ्ग्या त्रिजातेति गाली ददासि मे ॥ ४३९ ॥ त्वं पुनर्गोमुखव्याघ्री धूतलक्षणलक्षिता । त्वयेव परमस्माभिः किन्तु दम्भा न शिक्षिताः ॥ ४० ॥ मां समाक्रुश्य पूर्व रे ! क्षमयस्यधुना पुनः । पीत्वा नीरं हि पश्चात् त्वं गृहं पृच्छसि मूढके ! ॥ ४४१ ।। इत्यादि मलिनैर्वाक्यराचुक्रोश मुहुर्मुहुः । ततः प्राघूर्णिका चित्ते चिन्तयामासिवानिदम् ॥ ४२ ॥ इयं प्रदीपनत्रस्तगर्दभीव प्रवर्त्तते । साऽग्रे खादति दशनैः पादाभ्यां हन्ति पृष्ठतः ॥ ४४३ ॥ तथा । १शूद्र
चरचचचचचररररररररर रियलय
॥३४॥