________________
श्रीजैन कथासंग्रहः
||३२||
साऽब्रवीद् भवतां नूनं स एवं कथयिष्यति । मया समुद्रनीरस्य मानमङ्गीकृतं पुरा ॥ ४०६ ।। निम्नगानीरमानं तु न प्रतिज्ञाकृतं तदा । नदीनीरमतो यूयं पृथग् कुरुत शक्तितः ।। ४०७ ।। नदीनीरपृथग्भावाकरणे भवतां श्रियम् । लास्यत्यसौ समुद्रस्य नीरमानं विनाऽप्यहो ! ॥ ४०८ ॥ ते प्रोचुर्वक्तुमप्येष नैव जानाति बालिशः । अतः कुतोऽस्य भविता सुबुद्धिरीदृशी खलु ? ।। ४०९ ।। साऽवदद् वावदूकेन विद्वांसो वादमादरात् । नैव कुर्वन्ति किन्तु द्राक् सुधीवाण्या जयन्त्यमुम् ॥ ४१० ॥ अतोऽयं बुद्धिशुद्धेन स्तोकेन वचसाऽपि वः । हारिमानेष्यति श्रीमान् सोढ्याः श्रेष्ठिवधूरिव ।। ४११ ।। का श्रेष्ठिसुवधूः सोढी कथं वा निर्जिता तया । तैरित्युक्तेऽब्रवीत् साऽपि श्रूयतां मम भाषितम् ।। ४१२ ।। सुसीम्नि ग्रामे सोढीति नाम्नी कलहकारिणी । वसति स्म पुरा रण्डा प्रचण्डा पातकप्रिया ।। ४१३ ।। सा तथा वक्ति चलति वीक्षते च यथा कलिः । केनचिज्जायते तस्यास्तं विनाऽन्नं न जीर्यते ।। ४१४ ।। स्वगृहेऽन्यगृहे मार्गे त्रिके चत्वरके तथा। येन केनापि साऽवश्यं करोति कलहं सदा ।। ४१५ ।। तद्ग्रामे साऽजनि ख्याता कलहेन ततो जनः । राटीभीतोऽपराधेऽपि कोऽपि भाषयते न ताम् ।। ४१६ ॥ उक्तं च- उद्यमे नास्ति दारिद्यं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति नास्ति जागरतो भयम् ।। ४१७ ॥ कलिं विना तदा साऽपि रतिं लेभे न कुत्रचित् । राीं कर्तुमतो याति परग्रामेषु नित्यशः ॥ ४१८ ।। वृषं पर्याणसंयुक्तं विधाय कलिकर्त्तुका ।
रत्नचूडकथा
॥३२॥