SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ज रत्नच्डकथा श्रीजैन कथासंग्रहः ॥३१॥ यनगDRDOI परयचयापचयरगररचयरगतात । तदा ते सटान्मोक्षोऽन्यथा भावी कदापि ॥ ३९२ ॥ विधिर्बभाण तर्हि त्वं वृद्धपुत्रस्य सन्निधौ। गच्छ मौक्तिकवारांश्च विक्रीय कटकं कुरु ॥ ३९३॥ चतुरङ्गचमूं लात्वा गत्वा स्वनगरे तथा। निर्वास्य वैरिणः सद्यः पुना राज्यं गृहाण भोः ! ॥ ३९४ ॥ तस्योदितं निशम्यासौ हृष्टचित्तस्तथाऽकरोत् । आत्ते राज्ये पुनः सर्वे स्वजनाद्या अमीमिलन् ॥ ३९५॥ पट्टाभिषेको विदधे वृद्धपुत्रस्य तैस्ततः। सुबुद्धिबुद्धितः सोऽपि चिरं राज्यं चकार च ॥ ३९६ ॥ बुद्धिमन्तो जना एवं विधेरपि.बलाच्छ्रियम् । गृहन्ति कतमस्त्वं तु गतमेव ततो धनम् ॥ ३९७ ॥ तथा हतं च दैवेन तवैकं लोचनं पुरा । धूर्तबुद्ध्याऽनया किन्तु द्वितीयमपि यास्यति॥३९८॥ कथं गमिष्यतीत्युक्ते तेन साऽप्यगदत् पुनः । वदिष्यति स एवं ते नेत्रं मुक्तं यथा त्वया ॥ ३९९ ॥ अन्यैरपि तथा तानि सन्ति मुक्तानि मे ततः । स्वनेत्रमेकतो मुच तोलयित्वा यथाऽपये॥ ४०० ॥ अतोऽहं कथयाम्येषा वृथा ते कूटसूत्रणा न बुद्धिरेषाऽसत्येति मन्यमानो ययौ स च॥ ४०१॥ अथ तत्राययुः शीघ्रं चत्वारो वणिजस्तदा। पूर्ववद् भाषितास्तेऽपि तस्याः सर्व न्यवेदयन् ॥४०२॥ चिन्तयित्वा चिरं चित्ते तद्वचः साऽप्यभाषत । भवद्भिर्गेहसर्वस्वं हठानिर्गमितं मुधा।। ४०३॥ तेऽवोचन् नीरनीरमानं केनापि नो भवेत् । अतस्तच्छ्यिमस्माकं गृहे प्राप्तामवेहि वै॥ ४०४ ॥ सोचे विनाऽपि जलधेर्जलमानं भवच्छ्रियम् । ग्रहीष्यति मेधयाऽसौ का मेधैषाऽथ तेऽभ्यधुः ? ॥ ४०५ ॥ नगरचयरगनयनारायला घरचाररययययययययययय ॥३१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy