________________
रत्नच्डकथा
श्रीजैन कथासंग्रहः
॥३०॥
यायलयरत
रायबरचररचरशययययययययन
द्वितीयेऽपि दिने बलीवदं दृष्ट्वा स विस्मितः ॥ ३७९ ॥ ततो निवेदयामास सचिवस्य स मुग्धधीः । सोऽपितं प्रत्युवाचैवं विक्रयस्वाधुनाऽप्यमुम् ॥ ३८०॥ तथाकृतेऽमुना तस्मै सोऽपि शिक्षां ददाविमाम् । वत्स ! यो वृषभोऽति विक्रेतव्यस्त्वया स च ॥ ३८१ ॥ ओमित्युक्ते तदा तेन सोऽगात् पुत्री निरीक्षितुम् । कुत्रचिद् गणिकागेहश्रेण्यां तां च ददर्श सः ।। ३८२ ॥ तस्याः सम्यग् स्वरूपं स ज्ञात्वा प्रोवाच तां प्रति । का त्वं कस्य सुता वाऽसि ? ततः साऽपि जगाद तम् ॥ ३८३ ।। अहं राजसुता तात! कर्मणा विधृता भटैः । विक्रीता च गृहीता च गणिकाभिस्तदा मुदा ॥ ३८४ ॥ तेनाहमीदृशी जाता तथापि मम साम्प्रतम् । एक एव पुमानेति दौर्भाग्यैकशिरोमणिः ॥ ३८५ ॥ निश्चित्य राजपुत्री स ददौ शिक्षां तदेदृशीम् । वत्से ! यच्छति यो लक्षं स प्रवेश्यस्त्वया गृहे ।। ३८६ ॥ त्रयाणामप्ययं वृत्तिं कृत्वैवं सौख्यभागभूत् । अन्यदा निशि निंद्राणं विधिस्तं प्रत्यबोधयत् ।। ३८७ ॥ जाग्रन्नप्यसौ यावन्न ददात्युत्तरं तदा। विधिराह स्म किं निद्रा घना भोः ! वर्ततेऽधुना?॥३८८॥ सोऽवग् निश्चिन्तचित्तोऽहं जातः सुप्तं ततो मम। परं कस्त्वं किमर्थ भोः ! अत्राऽऽयातोऽसि सुन्दर!॥३८९॥ स जगाद विधि विद्धि भद्र! मां । क्षुद्रवर्जितम् । तव बुद्धिबन्धनतः स्वं मोचयितुमागतम् ॥ ३९० ॥ सुबुद्धिस्तं प्रति प्रोचे भवत्येषां । तवोदितम् । स प्राह सर्व हस्त्यादिकरणं दुर्घटं मम॥३९१ ॥ ततः सुबुद्धिराचख्यौ यदा राज्यं ददासि नः .
ECECEOरचयपचचरचरचय Diगलायलय
॥३०॥