________________
रत्नचूडकथा
श्रीजैन कथासंग्रहः
॥२९॥
हरिणादिकान् । प्रौड-प्रौढतरान् वीक्ष्य स पुनर्हन्तुमुद्यतः ।। ३६६ ॥ अभूद् यदा यदा सोऽप्यवारयत् तं तदा तदा । एवं सन्ध्याक्षणे तत्र समागाद् गजयूथकम् ॥ ३६७ ॥ ततः सुबुद्धिस्तं प्रोचेऽमीषु वृद्ध निपातय । सोऽपि प्रथमामोधेन बाणेन तमवीवधत् ॥ ३६८ ॥ तस्य कुम्भस्थलान्मुक्ताफलान्यादाय तौ ततः। गेहे गतौ सुबुद्धिस्तु तेष्वेकं व्यक्रीणत् तदा ॥३६९ ॥ तस्य मूल्येन सद्भोज्यं वस्त्रं च क्रीतवानयम् । द्वितीयेऽपि दिने तेन हस्ती तद्वन्निपातितः ॥ ३७० ॥ सुबुद्धिस्तमुवाचैवं वत्साहं तव बान्धवम् । विलोकयितुं गच्छामि सदा कार्य त्वया बदः ।। ३७१ ॥ भ्रममाणोऽन्यदा पृथ्व्यामेकस्मिन् नगरे स तम् । तृणार्थ गच्छमानं चापश्यदेकवृषान्वितम् ।। ३७२।। ततः परस्परालापं विधाय विधिवत् तदा। गेहे नीत: सुबुद्धिस्तं प्रोचिवानिदमादरात्॥ ३७३ ॥ वत्सामुं वृषभं सद्यो विक्रीयाऽऽनय मन्दिरै । शालि-दाल्यादि सभोज्यं घृतखण्डसमन्वितम् ।। ३७४ ॥ तस्योदितं निशम्यासौ कुमारो हृद्यचिन्तयत् । सचिवोऽयं वरं भोज्यं भुक्त्वा यास्यति कुत्रचित् ।। ३७५ ॥ परं मे शिरसा भारोद्वहनं वृषभं विना। प्राघूर्णिका: पराति यत्र जानन्तीह तदद्भुतम् ॥ ३७६ ॥ उक्तं च-चोरा य बल्लाकावि अ दुजणविजा य विप्पपाहुणया। नच्चणिधुत्तनरिन्दा परस्स पीडंन याणंति ॥ ३७७ ॥ अनुल्लायवचनोऽयं तथापि मम साम्प्रतम् । एकतो वृद्ध अमात्योऽन्यतो बभ्यागतोऽद्य मे ॥ ३७८ ॥ विचिन्त्येति सचिवोक्तं सर्व स कृतवान् तदा ।
यवरायायलयाला
यायलगायगायकलव
॥२९॥