________________
श्रीजैन कथासंग्रहः
॥२८॥
चयनरायगया
गयावयागला
अत्यन्ताद्भुतरूपां तां दृष्छा काऽपि पणानना । समयं धनसन्दोहं जग्राहाऽऽग्रहसंयुता ॥ ३५४ ।। राजपुत्रावप्यभूतां व्याध-कोरककर्मणो। दुष्पूरोदरभृत्यर्थ किं न कुर्वन्ति मानवा:?॥ ३५५ । उक्तं च-मानं मुञ्चति सेवते रिपुजनं दीनं वचो भाषते कृत्याकृत्यविचारणाद् विरहितो नापीक्षते दुष्कृतम्। भण्डत्वं विदधाति नर्तनकलाभ्यासः समभ्यासते दुष्पूरोदरपूरणव्यतिकरे किं किं न कुर्यान्नरः ? ॥३५६।। ततः कियद्भिर्दिवसैः स्वकुटुम्बं सुबुद्धिना । मेलयित्वाऽखिलं पश्चाद्धृदीत्थं चिन्तितं तदा ॥ ३५७ ॥ कुमारयोः कुमार्याश्च गवेषणमतः परम् । कत्तु मे युज्यते शीघ्रं तथाविधिप्रतिक्रियाम् ॥ ३५८ ॥ ततः कुटुम्बं संस्थाप्य कस्मिंश्चिन्नगरे वरे। पुर-ग्राम-द्रोण-खेट-नगरादिषु सोऽभ्रमत् ॥ ३५९॥ स एकस्मिन् पुरे जीर्णवस्त्रं दुर्बलगात्रकम् । वृद्धं राजकुमारं तं दृष्ट्वाऽभूत् सुख-दुःखभाग् ।। ३६० ।। लज्जानम्रमुखो. जज्ञे कुमारोऽपि विलोक्य तम् । ततः सुबुद्धिरित्याख्यद् गत्वाऽस्य सविधे तदा ॥ ३६१ ॥ ईदृशी दुरवस्था ते वत्स ! राजसुतस्य किम् ? । सोऽवदद् दैवयोगेन तात ! मे मतिमूढता ॥ ३६२ ॥ ततो मयाऽन्यकर्माणि मुक्तसर्वाण्यपि स्वयम् । व्याधकर्म समारेभे दैवो हि बलवत्तरः॥ ३६३ ॥ तत्राप्येकतरं जीवं हन्मि न द्वितीयं दिने । तेन तातेदृशी जज्ञे दुरवस्था ममाधुना ॥ ३६४ ॥ सुबुद्धिस्तु द्वितीयेऽह्नितेन सार्धमगाद् बहिः ।। कुमारोऽथ शशं प्रेक्ष्य बाणमुक्तिपरोऽभवत् ॥ ३६५ ॥ अमात्यो वारयामास तं तदा
गायनयानगरलिया यययययययययययययययया
રટા