________________
रत्नचूडकथा
श्रीजैन कथासंग्रहः
२७
ययययययययनमा रियलयलयरयरचरचररररररररर
पृथ्वीचन्द्रोऽभवन्नृपः ॥ ३३९ ॥ तस्य सुबुद्धिरमात्यः सुबुद्धिभरभासुरः । राजचिन्ताकरो नित्यं भूभृजनपदप्रियः ॥ ३४० ॥ राज्ञः पुत्रेऽन्यदा जाते प्रवृत्ते च महोत्सवे । षष्ठीजागरणे रात्री सोऽगात् तद्भाग्यमीक्षितुम्॥३४१॥ दत्त्वा दत्त्वा च ताम्बूलान् धवलानि तथैव च । प्रसुप्ते कामिनीवर्गे व्योमनि ध्वनिरित्यभूत् ॥ ३४२ ॥ व्याधोऽयं भविता नूनं गते काले कियत्यपि । परमेकतरं जीवं तदा व्यापादयिष्यति॥३४३॥ तनिशम्य विषण्णात्मा सुबुद्धिातवान् हदि। राजजातोऽपि नैवायं राजयोग्यो भविष्यति॥३४॥ द्वितीयेऽपि सुते जाते षष्ठ्यां सोऽस्थात् तथा निशि। तत्रैवं शब्दमश्रौषीत् कोरकोऽयं भविष्यति ॥ ३४५ ॥ तदा सदा बलीवर्दोऽस्यैको नूनं भविष्यति । तच्छुत्वा हृदये दध्यावसावपि न भाग्यवान् ॥ ३४६ ॥ पुत्री जाताऽन्यदा राज्ञस्तस्याः षष्ठ्यामपि स्वयम् । तथैव स्थितवानेवं शब्दं शुश्राव चोच्चकैः।। ३४७॥ एषा वारवधूः पुत्री भविष्यति तदा पुनः। नरोऽस्या भवने ह्येक आयास्यति दिनं प्रति ॥ ३४८ ॥ इतीरितं निशम्यासौ चिन्तयामास चेतसि । दशेदृशी चेत् सर्वेषां भावी राज्यक्षयस्तथा ॥३४९॥ चिन्तयित्वेत्यसौ यावत् स्थितो गम्भीरमानसः । तावत् तत्राचिन्त्यमेव परचक्रं समागतम् ॥३५० ॥ अल्पभृत्यस्ततो राजा युद्धं कृत्वा चिरं रणे । एकोऽपि पञ्चतां प्राप धारातीर्थवशात् तदा ॥३५१ ॥ राजपुत्री तथाऽमात्यः केऽपि पौरजनाः पुनः । दिशोदिशं तदा नष्टा जीवग्राहं पृथग् पृथग् ॥३५२ ॥ उल्लुण्टननरै राजपुत्री बालवशाद्धृता । ततोऽन्यत्र पुरे गत्वा विक्रेतुं विधृता पथि ॥ ३५३ ॥
रल गगनगर
॥२७॥
च