SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ रत्नचूडकथा श्रीजैन कथासंग्रहः ॥२६॥ यययययययययययययययन बालरियागरगरायचयरगरचय क्रोधो भविष्यति मम ध्रुवम् । ततः पादप्रहारेण हनिष्यामि निजां प्रियाम् ॥ ३२६ ।। पूर्वोक्तं सकलं चित्ते चिन्तितं तेन दुधिया। पादप्रहारदानं तु प्रत्यक्षं विहितं तदा ॥ ३२७ ॥ तत्प्रहारवशात् कुम्भः शतखण्डो बभूव सः । कियन्तः सक्तवः पश्चाद् वातेनोड्डापिता ययुः ।। ३२८॥ कियन्तो भस्मीभूताश्च भूमिभस्मनि संस्थिताः । लोभमूलं गता एवं सकलास्तस्य सक्तवः ।। ३२९ ॥ तवापि पादुका चैवं गता जानीहि संप्रति । यतोऽनया तव लोभो जातो घनतर: किल॥ ३३०॥ श्रुत्वा तद्वचनं सोऽवक् मां हृष्टं प्रविधाय सः। चेल्लास्यति तदा लाभो भविष्यति हृदि स्थितः ।। ३३१ ।। करिष्यति प्रहृष्टं त्वामेकवाक्येन सोऽधुना । यतोऽन्यायनृपावासे पुत्रो जातोऽस्ति संप्रति ॥ ३३२ ।। राजगृहसुतोत्पत्त्या किं त्वं हृष्टोऽथवा नहि। इतीरिते हृष्टतैव सम्मता दृश्यते तव ॥ ३३३ ।। तन्निशम्य गतो यावत् स गेहं तावदागतः । कितवोऽथ तया पृष्टः स्ववृत्तान्तं न्यवेदयत् ।। ३३४ ॥ तन्निशम्य जगी साऽपि कूटबुद्धिरहो ! तव । तथापि यद् धनं तस्य दत्तं तन्नोचितं कृतम् ॥ ३३५ ॥ सोऽजल्पत् तस्य सर्वस्वग्रहणेऽयं मया किल । सत्यारोऽर्पितो नूनं साऽथोचे तद् गतं तव ।। ३३६ ॥ सोऽवदत् तं न पश्यामि मनुष्यं भुवनेऽखिले । यो हि गृहाति मद्वित्तं ततः सोवाच तं प्रति ॥ ३३७॥ कोऽयमखर्वगर्वस्ते बुद्धिमान यन्नरो भुवि । विधेरपि श्रियं लाति सुबुद्धिरिव बुद्धितः ॥ ३३८ ॥ कोऽयं सुबुद्धिस्तेनेति पृष्टे साऽप्यभ्यधात् पुनः । पृथ्वीभूषणनगरे चारचारबागचरचराचरचराचरयरचय ॥२६॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy