SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ रत्नचूडकथा श्रीजैन कथासंग्रहः ॥२५॥ లలలలలలలలల 22एयरपरचयपचरचयरचय कथयामास तव लाभो न दृश्यते ॥ ३१२ ॥ सोऽप्यभाणीन्ममात्यन्तमत्र लाभो भविष्यति। सर्वस्वग्रहणे तस्य यतो मे हृष्टता भवेत् ।। ३१३ ॥ सागदत् तव हीनस्याधिकवाञ्छनयाऽनया। भविष्यति मूलनाश: सोमशर्मपितुर्यथा ॥ ३१४ ॥ सोऽवदत् कः सोमशर्मपिता तस्य कथं ह्यभूत् । मूलनाशस्तत: सोचे कथ्यमानं मया शृणु ॥ ३१५ ॥ पुरैकस्मिन् महाम्रामे बटुश्चटुवचा भ्रमन् । सक्तून् घनतरान् प्राप नवसक्तुकपर्वणि ॥ ३१६ ॥ ततः सन्ध्याक्षणे कुम्भकारगेहे जगाम सः । कुम्भं सक्तुभिरापूर्य सुष्वाप च महीतले ॥ ३१७ ।। सुप्तोऽसौ चिन्तयामास ग्रहीष्येऽमीभिः कुर्कुटीम् । जनयिष्यत्यल्पकालादपत्यानि बहूनि सा॥३१८॥ ततोऽजांतानि विक्रीय गावं तजनितैः पुनः। तदपत्यैस्तु वडवांततो मेऽश्वाश्वसंहतिः ॥ ३१९ ॥ तदाऽहं घोटकान् सर्वान् विक्रीय द्रविणं बहु । अर्जयित्वा स सद्गेहं कारयिष्यामि पुष्फलम् ॥ ३२० ॥ ततोऽहं रुक्मिणीनाम्नी शुद्धब्राह्मणवंशजाम् । कन्यां विवाहयित्वा च भोक्ष्ये वैषयिकं सुखम् ॥ ३२१॥ कियत्यपि गते काले पुत्रो मे भविता वरः । सोत्सवं सोमशम्मति तस्य नाम प्रदास्यते ॥३२२ ॥ तदा मे नृपसम्मानं घोटकक्रयविक्रयात् । भविष्यति ततो लोकैरपि भक्तिः करिष्यते ॥३२३॥ सर्वसौख्यमये काले व्रजतीत्थं कदाचन । रुदन्तं वीक्ष्य से बालं वदिष्यामि प्रियां प्रति॥३२४ ॥ अये! किं रोदयस्येनं तदा सेत्थं गदिष्यति। भवतां वल्लभोऽयं चेत् तदा रक्षत साम्प्रतम् ॥ ३२५॥ तयेति गदिते चरागनगर भयलयपरायचयकरायलाच ॥२५॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy