________________
रत्नचूडकथा
श्रीजैन कथासंग्रहः
॥२५॥
లలలలలలలలల 22एयरपरचयपचरचयरचय
कथयामास तव लाभो न दृश्यते ॥ ३१२ ॥ सोऽप्यभाणीन्ममात्यन्तमत्र लाभो भविष्यति। सर्वस्वग्रहणे तस्य यतो मे हृष्टता भवेत् ।। ३१३ ॥ सागदत् तव हीनस्याधिकवाञ्छनयाऽनया। भविष्यति मूलनाश: सोमशर्मपितुर्यथा ॥ ३१४ ॥ सोऽवदत् कः सोमशर्मपिता तस्य कथं ह्यभूत् । मूलनाशस्तत: सोचे कथ्यमानं मया शृणु ॥ ३१५ ॥ पुरैकस्मिन् महाम्रामे बटुश्चटुवचा भ्रमन् । सक्तून् घनतरान् प्राप नवसक्तुकपर्वणि ॥ ३१६ ॥ ततः सन्ध्याक्षणे कुम्भकारगेहे जगाम सः । कुम्भं सक्तुभिरापूर्य सुष्वाप च महीतले ॥ ३१७ ।। सुप्तोऽसौ चिन्तयामास ग्रहीष्येऽमीभिः कुर्कुटीम् । जनयिष्यत्यल्पकालादपत्यानि बहूनि सा॥३१८॥ ततोऽजांतानि विक्रीय गावं तजनितैः पुनः। तदपत्यैस्तु वडवांततो मेऽश्वाश्वसंहतिः ॥ ३१९ ॥ तदाऽहं घोटकान् सर्वान् विक्रीय द्रविणं बहु । अर्जयित्वा स सद्गेहं कारयिष्यामि पुष्फलम् ॥ ३२० ॥ ततोऽहं रुक्मिणीनाम्नी शुद्धब्राह्मणवंशजाम् । कन्यां विवाहयित्वा च भोक्ष्ये वैषयिकं सुखम् ॥ ३२१॥ कियत्यपि गते काले पुत्रो मे भविता वरः । सोत्सवं सोमशम्मति तस्य नाम प्रदास्यते ॥३२२ ॥ तदा मे नृपसम्मानं घोटकक्रयविक्रयात् । भविष्यति ततो लोकैरपि भक्तिः करिष्यते ॥३२३॥ सर्वसौख्यमये काले व्रजतीत्थं कदाचन । रुदन्तं वीक्ष्य से बालं वदिष्यामि प्रियां प्रति॥३२४ ॥ अये! किं रोदयस्येनं तदा सेत्थं गदिष्यति। भवतां वल्लभोऽयं चेत् तदा रक्षत साम्प्रतम् ॥ ३२५॥ तयेति गदिते
चरागनगर भयलयपरायचयकरायलाच
॥२५॥