SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः रत्नचूडकथा ॥२४॥ " यययययययययययगर चालयचरचरचरचरचरररररररयल प्रकीर्तितम् । बोधनं तर्जनेनेह चिन्ताहेतुमथो जगौ ॥ २९९ ॥ कियन्तः सन्ति जनकास्तव चिन्ता मम नृप ! । तन्निशम्य विषण्णात्मा राज्ञोचे किं ब्रवीषि रे ! ॥ ३०० ॥ सोऽवदत् पञ्च पितरस्तव सन्ति नराधिप ! । कूटं चेन्मन्यसे माता प्रमाणं ते तदाऽधुना ॥ ३०१ ॥ ते के राज्ञेति संपृष्टे सोऽगदत् कुम्भकारकः । वृश्चिको रजकश्चैव मन्दुरारक्षको नृपः ।। ३०२ ।। ततोऽसौ मातरं प्रोचे तत्किं मे पितरो वद । कौँ पिधाय साऽवोचद् वत्स ! किं जल्पितं त्वया ? || ३०३ ।। एक एव जगन्मान्यस्तवाऽऽसीजनको ननु । इत्युक्तोऽपि यदा नासौ कदाग्रहं मुमोच च ॥३०४ ।। ऋतुस्नानानन्तरं सा कुम्भकारादिदर्शनम् । तदा प्रकथयामास तच्छुत्वा स चमत्कृतः ।। ३०५॥ पुनारोहकमपृच्छत् कथं ज्ञातं त्वया ह्यदः । सोऽवग् लत्तादिदानेन चत्वारोऽप्यनुमेनिरे ।। ३०६॥ पञ्चमः सर्वदिग्स्वामी लोकपाल इवोत्तमः । पिता श्रीजितशत्रुस्ते बभूव भुवि विश्रुतः ।। ३०७॥ तन्निशम्य मुदा राजा मुख्यं तं सर्वमन्त्रिषु । चकार राज्यचिन्तां च तस्मिन् सर्वां न्यवीविशत् ॥ ३०८ ॥ तस्य बुद्धिबलेनासौ प्रौढानपि महीभुजः । हेलया साधयामास शौर्याद बुद्धेर्बलं वरम् ।। ३०९॥ एवं बुद्धिबलोपेता भवेयुः केऽपि बालकाः । अतो बालस्य नो मौग्ध्यं चिन्त्यमेकान्ततोऽत्र भोः!॥३१०॥ इत्युक्ते यावदुत्तस्थुस्ते चत्वारोऽपि धूर्त्तकाः। पादुकाकारकस्तावत् तत्रागाद् हर्षसंयुतः ॥ ३११ ॥ पूर्ववत् स तया पृष्टः सर्व वृत्तान्तमाख्यत । ततः सा वयलयलयमगचल गगनचययययययययय ॥२४॥ न
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy