________________
रत्नचडकथा
श्रीजैन कथासंग्रहः
॥२३॥
नायगरायचयनरायन बालरबररररररररररररररावल
रोहकमादाय राजाऽगाद् वासवेश्मनि । तत्र तल्पे च सुष्वाप गङ्गापुलिनकोमले ।। २८५ ॥ निद्राणस्य नपस्यासौ पादसंवाहनापरः । श्रान्तत्वाद् बालभावाच्च प्रमीलां प्राप रोहकः ॥ २८६ ॥ ततो निद्राविहीनेन राज्ञाऽसौ जल्पितोऽपिच । यदान वक्ति स तदा लत्तयाऽऽहत्य बोधितः॥ २८७॥ कथितं च प्रसुप्तोऽसि किंरे ! सोऽपि जगौ न वै । राजा प्राह तर्हि किं मे नोत्तरो विहितस्त्वया ? ॥ २८८ ॥ स जगाद सचिन्तोऽहं तदाऽऽसं तेन नावदम् । का चिन्तेति नृपेणोक्ते सोऽब्रवीच्छृणु भूपते ! ॥ २८९ ।। अजाया उदरे लिण्डीः को बन्धयति कथ्यताम् ? । नृपेणोचे त्वमेवेह कथय स ततोऽवदत् ॥ २९०॥ अस्याः संवतको वायुरुदरे तिष्ठति प्रभो ! । तेनेमा गुटिकाकल्पा जायन्ते नृपसत्तम ! ॥ २९१ ॥ ज्ञेयं द्वितीययामेऽपि पूर्वयामसमं समम् । किन्तु जागरणे हेतुश्चपुटिक उच्चकैः ॥ २९२ ॥ चिन्ताहेतुं तथा. पृष्टः स जगाद स्फुटं प्रभो!। कपित्थफलमनाति गजोऽभग्नं च मुञ्चति ॥ २९३ ॥ परं मध्यस्थितं सारं मोचनान्न हि दृश्यते । तच्च कुत्र व्रजत्येषा चिन्ता मे हृदि वर्त्तते ॥ २९४ ॥ राजाऽऽह कारणं ब्रूहि सम्यग् ज्ञात्वा त्वमेव भोः !। स प्राह तस्य जठराग्निना सर्व प्रपच्यते ॥ २९५ ॥ एवं तृतीययामेऽपि सर्व निद्रादिकं तथा। परं जागरणे हेतुर्वस्वघातोऽत्र कीर्त्यते ॥ २९६ ॥ चिन्तानिदानं सोऽवोचदम्लं दृष्ट्वा यदत्र भोः !। दंष्ट्राः सवन्ति राजेन्द्र ! तत् किं कारणमुच्यताम् ? ॥ २९७ ॥ राजा प्राह त्वमेवेह कथय सोऽवदत् ततः। दंष्ट्रा हि दुग्धनिष्पन्ना मुञ्चन्तीह ततो जलम् ॥ २९८ ॥ इत्थं चतुर्थयामेऽपि प्रमीलादि
चयलयलयलयललललल यालययययययययययययययययरत
॥२३॥