SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः रत्नचूडकथा ॥२२॥ रियरचारायचचचरररररररररस तांदुर्घटां मत्वाऽकथयनृपति प्रति ॥ २७२॥ पुरातन्याः खण्डमेकं तस्याः संप्रेष्यतामिह । यथा तदनुमानेन नव्या सा क्रियते जनैः ॥ २७३ ॥ आख्यापयनृपोऽन्येद्युनरेण तं प्रतीदृशम् । यदत्र न पुरीमध्ये मिष्टपानीयकूपकः ॥ २७४ ॥ इहस्थोऽतः कोऽपि कूपः प्रहेयो मिष्टनीरयुक् । विमृश्य सोऽपि तं प्रोचे ग्रामीणा: कूपका इमे ।। २७५ ॥ आनीयमाना नगरौं भयात् पश्चाद् वलन्त्यमी। अतः कोऽपि नागरिकः कूपः प्राक् प्रेष्यतामिह ॥ २७६ ॥ तेनेहत्यं यथा बद्ध्वा नयामि नगरी प्रति। तच्छ्रुत्वा नृपतिर्दध्यौ सत्यं धीमानयं खलु ॥ २७७ ॥ अन्यदाऽऽकारयामास नृपतिस्तं स्वसन्निधौ । व्यवस्थयाऽनया सद्यः परस्परविरुद्धया॥ २७८ ॥ समलाङ्गेन नागम्यं स्नानं कार्य न च त्वया। यानं विना तथा नैव पादचारेण कहिंचित् ॥ २७९ ॥ नापथा न च मार्गेण न रात्रौ न दिने तथा । न कृष्णे न सिते पक्षे न च्छायायां न चातपे॥ २८०॥ रिक्तहस्तेन नागम्यं न सोपायनपाणिना । सोऽतो विमृश्य चन्दनोद्वर्तनान्मलवर्जितः ॥२८१॥ 'हुडुमारुह्य पादाभ्यां स्पृशन् भुवस्तलं तथा। सितपक्षस्य प्रतिपदिनेऽदष्टसुधाकरें॥ २८२॥ सन्ध्यायां मार्गमध्येन चालिनीधृतशीर्षकः। मृत्तिकायुक्तपाणिश्च सोऽगानृपतिसन्निधौ ।। २८३ ।। अग्रस्था मृत्तिकां दृष्ट्वा राजाऽवोचत् किमत्र भोः । स प्राह यस्याः पतयो भवन्तः सोपढौकिताः ।। २८४ ।। ततो १ घेटु नगलाचवतात गरपयरचरचरयचयपघलया ॥२२॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy