________________
श्रीजैन कथासंग्रहः
॥२१॥
भूभृन्निवेदितावासो भविष्यत्यनया खलु । परं धनादिकं सर्वं राज्ञा देयं विनिर्मितौ ॥ २५९ ॥ राज्ञे तदुक्तमाचख्यावागत्य नृपपूरुषः । पुनां राज्ञाऽन्यदा प्रैषि मेषो रोहकसन्निधौ ॥ २६० ॥ कथापितं च मेषोऽयं पोष्यः प्रतिदिनं त्वया । न पुनः स्थूलदेहोऽयं कार्यः कार्यविदा सदा ।। २६१ ॥ स पुष्यति भृशं मेषं दर्शयत्येकदा वृकम् । तथा तस्य ततो जज्ञे न स्थूलावयवः स च ।। २६२ ।। तं वृत्तान्तमथ ज्ञात्वा कुकुटः प्रहितोऽन्यदा । निवेदितं तथैकोऽयं योधनीयस्त्वयाऽनघ ! ।। २६३ ।। सम्मुखं दर्शितादर्शे स्वदेहप्रतिबिम्बनात् । स योधितश्चिरं तेन बुद्धेः किं दुष्करं भवेत् ? ।। २६४ ॥ अन्यदा प्रेषयामास तिलानां शकटान् तथा । ज्ञापयामास यन्त्रेऽमून् तैलं निष्पीड्य नोऽर्प्यताम् ॥ २६५ ॥ अधोमुखेन मानेन परं ग्राह्यास्तिला इमे । तेनैव सम्मुखेनाहो ! तैलं देयं पुनस्त्वया || २६६ ।। आदर्शपृष्ठभागेन तिलान् लात्वा स रोहकः । तस्यैवोपरिभागेन तैलं स्तोकं ददौ तदा ।। २६७ ।। पुनर्वृद्धगजो राज्ञा प्रहितोऽपटुदेहकः । भाणितं चास्य मरणं यदा भवति मे तदा ।। २६८ ।। न कथ्यमकथयित्वा न स्थेयं पुनरादरात् । ततो मृते गजे राजा विज्ञप्तस्तेन धीमता ।। २६९ ।। तृणं नात्ति गजः स्वामिन् ! नीरं पिबति नैव न । करोत्युच्छ्वासनिःश्वासौ राजोचे तर्हि किं मृतः ? ॥ २७० ॥ स त्वाह निगदत्वेतद् देवो नैव वदाम्यहम् । इत्युक्त्वा स गतो गेहं पुना राज्ञा परेद्यवि ।। २७१ ॥ तेनाकारयदस्तोकां वृत्तिं सवालुकामयीम् । सोऽपि
1
रत्नचूडकथा
॥२१॥