________________
च
रत्नचूडकथा
श्रीजैन कथासंग्रहः
॥२०॥
रिचरचररररररररररररररररर मयययययययययययय
! भिनत्सि त्वं पुरीं मम ॥ २४५ ॥ उदात्तं तद्वचः श्रुत्वा यावदग्रेस पश्यति । तावद् रेणुमयी रम्यां ददर्श नगरी निजाम् ॥ २४६ ॥ सार्थक वचनं श्रुत्वा विज्ञानं च तथाऽद्भुतम् । दृष्ट्वा राजा चमच्चक्रे धीमान् यद् बालकोऽप्यसौ॥ २४७ ।। नृपः स्वसेवकान् प्राह कोऽयं कस्य सुतस्तथा। तेऽवोचन् रोहकाभिख्यः कुशीलवनटात्मजः ॥ २४८ ॥ ततो राजाऽन्यमार्गेण गत्वा रन्त्वा बहिः पुनः । हृष्टो जगाम स्वपुरी स्वग्रामं बालकोऽपि च ॥ २४९ ॥ नवनवत्युत्तराऽऽख्यमन्त्रितुर्यशती पुरा । विद्यते पुनरेकं स महामन्त्रिणमीहते ॥ २५० ॥ तस्य बुद्धिपरीक्षार्थ नृपो भृत्येन केनचित् । अकथयन्नटग्रामजनानेवं विशारदः ॥ २५१ ॥ अस्मद्वासाय विस्तीर्ण एकद्रव्यमयस्तथा। उत्तुङ्गः स्तम्भहीनश्च प्रासादः कार्यतामिह ॥ २५२ ॥ आदेशं दुर्घटं मत्वा ग्रामीणा एकतोऽमिलन् । तथा विमर्शयामासुः परं बुद्धिर्न जायते ॥२५३॥ तदा रोहक आगत्य जगाद जनकं प्रति। उत्थीयतां भोजनाय तातोत्सूरं प्रजायते ॥ २५४ ॥ नटः प्राहाशनं वत्स ! तव स्मरति नो मम । क्षुद्रादेशो यतो राज्ञा दत्तोऽसि ग्रामवासिनाम् ।। २५५ ॥ रोहकोऽप्यवदत् तात! क आदेशो महीभुजा। दत्तो ? येनाखिलो लोकः सचिन्त इव दृश्यते ॥ २५६ ॥ आदेशे कथिते सोऽवक् पूर्व भोज्यं प्रकुर्वताम् । पश्चादुपायं वो वक्ष्ये ततस्ते भोजनं व्यधुः ॥ २५७॥ भोजनानन्तरं राजपुरुषं प्रति सोऽवदत् । शिलेयं विद्यते दीर्घा तथोच्चा पर्वतेऽत्र भोः ! ॥ २५८ ॥
यलयवनय
॥२०॥