SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१९॥ मानादि गौरवम् ।। २३२ ।। तस्यास्ततोऽपमानार्थमन्यदा पितुरग्रतः । उत्सूरसङ्गतस्यासौ निशायां प्रोचिवानिदम् ॥ २३३ ॥ पुमानयं गृहाद् याति यूयं पश्यत पश्यत । इत्युक्तं तस्य स श्रुत्वाऽजन्यरागः प्रियां प्रति ।। २३४ ।। अरागकारणं तं सा ज्ञात्वा चाह स्म रोहकम् । मानं दापय वत्स ! त्वं त्वत्पितुः पार्श्वतो मम ।। २३५ ।। सोऽभाणीत् ते तदा मानं दापयामि यदा मम । शुश्रूषां त्वं करोष्युच्चैरन्यथा न कंदाप्यहम् ॥ २३६ ॥ साऽब्रवीद् भोजनं वारान् त्रीन् तथा स्नानमेकद्रा । दिने दास्यामि ते नित्यं देवस्य शपथो मम ॥ २३७ ॥ मानदानाय तस्याः स एकदा पितरं प्रति । छायां निर्दिश्य चावादीत् पश्यामुं नरमागतम् ।। २३८ ।। तच्छ्रुत्वा स नटो दध्यौ यादृशोऽयं पुमान् किल । पुराऽपि तादृशो भाव्यतो नीरागः कथं स्त्रियाम् ? ।। २३९ ॥ सानुरागस्ततो जज्ञे रुक्मिण्यां स कुशीलवः । करोति रोहके भक्तिं साऽपि बुद्धिवशीकृता ॥ २४० ॥ अन्यदा रोहकः पित्रा सममुज्जयिनीं पुरीम् । द्रष्टुं जगाम तातेनानुशिष्टः स ततो गिरा ।। २४१ ।। नगय वत्स! मे वेला लगिष्यति घना ततः । स्थेयं सिप्रानदीमध्ये वलमानेन च त्वया ॥ २४२ ॥ ओमित्युक्त्वा सुविशालां विशालां वीक्ष्य स क्रमात् । गत्वा सिप्रां स्थितस्तत्र पितृप्रतीक्षणेच्छया ।। २४३ ॥ बालक्रीडावशात् सोऽपि लिखित्वा सकलां पुरीम् । यावत् तस्थौ नृपस्तावत् तत्रागादरि केशरी ॥ २४४ ॥ नृपमभ्यर्णगं वीक्ष्य स प्राह क्षोभवर्जितः । अनाथामिव किं नाथ रत्नचूडकथा ॥१९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy