SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१९॥ मानादि गौरवम् ।। २३२ ।। तस्यास्ततोऽपमानार्थमन्यदा पितुरग्रतः । उत्सूरसङ्गतस्यासौ निशायां प्रोचिवानिदम् ॥ २३३ ॥ पुमानयं गृहाद् याति यूयं पश्यत पश्यत । इत्युक्तं तस्य स श्रुत्वाऽजन्यरागः प्रियां प्रति ।। २३४ ।। अरागकारणं तं सा ज्ञात्वा चाह स्म रोहकम् । मानं दापय वत्स ! त्वं त्वत्पितुः पार्श्वतो मम ।। २३५ ।। सोऽभाणीत् ते तदा मानं दापयामि यदा मम । शुश्रूषां त्वं करोष्युच्चैरन्यथा न कंदाप्यहम् ॥ २३६ ॥ साऽब्रवीद् भोजनं वारान् त्रीन् तथा स्नानमेकद्रा । दिने दास्यामि ते नित्यं देवस्य शपथो मम ॥ २३७ ॥ मानदानाय तस्याः स एकदा पितरं प्रति । छायां निर्दिश्य चावादीत् पश्यामुं नरमागतम् ।। २३८ ।। तच्छ्रुत्वा स नटो दध्यौ यादृशोऽयं पुमान् किल । पुराऽपि तादृशो भाव्यतो नीरागः कथं स्त्रियाम् ? ।। २३९ ॥ सानुरागस्ततो जज्ञे रुक्मिण्यां स कुशीलवः । करोति रोहके भक्तिं साऽपि बुद्धिवशीकृता ॥ २४० ॥ अन्यदा रोहकः पित्रा सममुज्जयिनीं पुरीम् । द्रष्टुं जगाम तातेनानुशिष्टः स ततो गिरा ।। २४१ ।। नगय वत्स! मे वेला लगिष्यति घना ततः । स्थेयं सिप्रानदीमध्ये वलमानेन च त्वया ॥ २४२ ॥ ओमित्युक्त्वा सुविशालां विशालां वीक्ष्य स क्रमात् । गत्वा सिप्रां स्थितस्तत्र पितृप्रतीक्षणेच्छया ।। २४३ ॥ बालक्रीडावशात् सोऽपि लिखित्वा सकलां पुरीम् । यावत् तस्थौ नृपस्तावत् तत्रागादरि केशरी ॥ २४४ ॥ नृपमभ्यर्णगं वीक्ष्य स प्राह क्षोभवर्जितः । अनाथामिव किं नाथ रत्नचूडकथा ॥१९॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy