________________
BE
श्रीजैन कथासंग्रहः
BO॥श्रीदेवकुमार
चरित्रम् ।।
॥४॥
द्रव्यपीडयाऽन्योन्यग्रहपीडां वदन्ति च ॥ २८ ॥ बहुद्रव्यव्ययेनापि, गुणमप्रेक्ष्य योषितः । मोहेन दर्शयामास, श्रेष्ठी तां मन्त्रवादिनाम् ।। २९ ।। तमुवाच प्रियाऽस्थाने मा विधेहि धनव्ययम् । स्वयमेव भविष्यामि सजाऽहं क्रमयोगतः ॥३०॥ दत्तः प्राह प्रिये प्रेयः, किं त्वत्तोऽपिधनं मम। सुवर्णाद्वल्लभः किं स्यात् सुवर्णस्य मलो नृणाम् ? ॥३१॥ यदा सवार्यमाणोपि न तिष्ठति धनं व्ययन् । ततस्तया समग्रोऽपि सद्भाव: स्वो निवेदितः ॥ ३२॥ ततः श्रेष्ठी करौ घर्षचे चक्रे न सुन्दरम् । त्वया यदेवमत्रार्थे, खेदे स्वात्मा प्रपातितः ॥३३॥ तथाऽत्राहं करिष्यामि, यथा तव सुतो भवेत् । नराणां व्यवसाये हि, लाभ: सर्वत्र जायते ॥ ३४ ॥ तद्वचःश्रवणात्तस्याः, फुल्लान्यानि तत्क्षणात् । आरम्भतो वसन्तस्य प्रफुल्लन्ति लताः खलु॥३५॥शुचीभूतोऽन्यदा श्रेष्ठीस्वल्पस्वकपरिच्छदः। दत्तः प्रणयिनीशिक्षः पूजोपकरणान्वितः ॥३६॥ मनोरथास्ते पूर्यतामित्याशीर्वचनं मुदा । स्वगोत्रजरतीदत्तं, प्रतीच्छन् स्वच्छमानसः ॥ ३७॥ नगरादहिरारामे, महादेवकुलस्थिताम् । नाम्ना कामदुधां देवीमारादुमचलन्मुदा ।। ३८॥॥ त्रिभिर्विशेषकम् ॥ स्नपयित्वा विलिप्यतां, पूजयित्वा च सोऽवदत् । तदैव साम्प्रतं देवि ! चरणा: शरणाय मे॥३९॥ इत्युक्त्वा पावने स्थाने, दर्भमस्तरगर्भगः । सत्त्ववृत्ति समालम्ब्योपवासान् कर्तुमुद्यतः ॥४०॥ तस्यामथ तमस्विन्यामुचनपुरनिःस्वनैः । सूचयत्यागर्म स्वस्य प्रत्यक्षाजनि देवता ॥४१॥
॥४॥